________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 32 // श्रुतस्कन्धः१ प्रथममध्ययनं समयः, किण्वादिषु या च यावती च शक्तिरुपलभ्यते, तथाहि- किण्वस्य बुभुक्षापनयनसामर्थ्य भ्रमिजननसामर्थ्यं च उदकस्य तृडपनयनसामर्थ्यमित्यादिनेति, भूतानांच प्रत्येकं चैतन्यानभ्युपगमे दृष्टान्तदान्तिकयोरसाम्यम् / किंच- भूतचैतन्याभ्युपगमे मरणाभावो, मृतकायेऽपि पृथ्व्यादीनां भूतानांसद्भावात्, नैतदस्ति, तत्र मृतकाये वायोस्तेजसो वाऽभावान्मरणसद्भावः / / प्रथमोद्देशकः इत्यशिक्षितस्योल्लापः, तथाहि- मृतकाये शोफोपलब्धेर्न वायोरभावः, कोथस्य च पक्तिस्वभावस्य दर्शनान्नाग्नेरिति, अथ नियुक्ति: 33 ज्ञानात्मसिद्धिः सूक्ष्मः कश्चिद्वायुविशेषोऽग्निर्वा ततोऽपगत इति मतिरिति, एवं च जीव एव नामान्तरेणाभ्युपगतो भवतेत, यत्किञ्चिदेतत् / तथा न भूतसमुदायमात्रेण चैतन्याविर्भावः, पृथिव्यादिष्वेकत्र व्यवस्थापितेष्वपिचैतन्यानुपलब्धेः, अथ कायाकारपरिणतौ सत्यांतदभिव्यक्तिरिष्यते, तदपिन, यतोलेप्यमयप्रतिमायांसमस्तभूतसद्भावेऽपिजडत्वमेवोपलभ्यते।तदेवमन्वयव्यतिरेकाभ्यामालोच्यमानो नायं चैतन्याख्यो गुणो भूतानां भवितुमर्हति, समुपलभ्यते चायं शरीरेषु, तस्मात् पारिशेष्यात् जीवस्यैवायमिति स्वदर्शनपक्षपातं विहायाङ्गीक्रियतामिति / यच्चोक्तं प्राक्-'न पृथिव्यादिव्यतिरिक्त आत्माऽस्ति, तद्वाहकप्रमाणाभावात्, प्रमाणंचात्र प्रत्यक्षमेवैक' मित्यादि, तत्र प्रतिविधीयते- यत्तावदुक्तं प्रत्यक्षमेवैकंप्रमाणं नानुमानादिक' मित्येतदनुपासितगुरोर्वचः, तथाहि-अर्थाविसंवादकंप्रमाणमित्युच्यते, प्रत्यक्षस्य च प्रामाण्यमेवं व्यवस्थाप्येत-काश्चित्प्रत्यक्षव्यक्तीर्धर्मित्वेनोपादाय प्रमाणयति-प्रमाणमेताः, अर्थाविसंवादकत्वाद्, अनुभूतप्रत्यक्षव्यक्तिवत्, न च ताभिरेव प्रत्यक्षव्यक्तिभिः स्वसंविदिताभिः परंव्यवहारयितुमयमीशः, तासांस्वसंविनिष्ठत्वात् मूक्त्वाच्च प्रत्यक्षस्य, तथा नानुमानं प्रमाणमित्यनुमानेनैवानुमाननिरासं कुर्वंश्चार्वाकः कथं नोन्मत्तः स्याद्?, एवं ह्यसौतदप्रामाण्यं प्रतिपादयेत् यथा-नानुमानं प्रमाणम्, विसंवादकत्वाद्, 0 किण्वे बुभुक्षा (मु०)। (c) भवति (मु०)। 0 प्यते (मु०)। // 32 //