________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 / / 31 // भाव एव साधितो भवति / पुनर्हेत्वन्तरमाह-ण अण्णमुणियं मुणइ अण्णो त्ति इहेन्द्रियाणि प्रत्येकभूतात्मकानि, तान्येव। श्रुतस्कन्धः१ य द्रष्टुरभावाद् द्रष्टुणि, तेषां च प्रत्येकं स्वविषयग्रहणादन्यविषये चाप्रवृत्तेर्नान्येन्द्रियज्ञातमन्यदिन्द्रियं जानातीति॥ प्रथममध्ययनं समयः, 33 // , अतो मया पञ्चापि विषया ज्ञाता इत्येवमात्मकः संकलनाप्रत्ययो न प्राप्नोति, अनुभूयते चायम्, तस्मादेकेनैव द्रष्ट्रा | प्रथमोद्देशकः भवितव्यम्, तस्यैव च चैतन्यं न भूतसमुदायस्येति, प्रयोग: पुनरेवं- न भूतसमुदाये चैतन्यम्, तदारब्धेन्द्रियाणां प्रत्येक नियुक्ति: 33 ज्ञानात्मसिद्धिः विषयग्राहित्वे सति संकलनाप्रत्ययाभावात्, यदि पुनरन्यगृहीतमप्यन्यो गृह्णीयाद् देवदत्तगृहीतं यज्ञदत्तेनापि गृह्येत्, न चैतद् दृष्टमिष्टं वेति / ननु चस्वातन्त्र्यपक्षेऽयं दोषः, यदा पुनः परस्परसापेक्षाणां संयोगपारतन्त्र्याभ्युपगमेन भूतानामेव समुदितानां चैतन्याख्यो धर्मः संयोगवशादाविर्भवति, यथा किण्वोदकादिषु मद्याङ्गेषु समुदितेषु प्रत्येकमविद्यमानाऽपि मदशक्तिरिति, तदा कुतोऽस्य दोषस्यावकाश इति?, अत्रोत्तरं गाथोपात्तचशब्दाक्षिप्तमभिधीयते- यत्तावदुक्तं यथा 'भूतेभ्यः परस्परसव्यपेक्षसंयोगभाग्भ्यश्चैतन्यमुत्पद्यते', तत्र विकल्पयामः- किमसौ संयोगः संयोगिभ्यो भिन्नोऽभिन्नो वा?, भिन्नश्चेत्षष्ठभूतप्रसंगो, न चान्यत् पञ्चभूतव्यतिरिक्तसंयोगाख्यभूतग्राहकं भवतां प्रमाणमस्ति, प्रत्यक्षस्यैवैकस्याभ्युपगमात्, तेन च तस्याग्रहणात्, प्रमाणान्तराभ्युपगमे च तेनैव जीवस्यापि ग्रहणमस्तु, अथ अभिन्नो भूतेभ्यः संयोगः, तत्राप्येतच्चिन्तनीयंकिं भूतानि प्रत्येकं चेतनावन्त्यचेतनानि वा?, यदि चेतनावन्ति तदा एकेन्द्रियसिद्धिः, तथा (च) समुदायस्य पञ्चप्रकारचैतन्यापत्तिः,अथाचेतनानि, तत्र चोक्तो दोषो, न हि यद्यत्र प्रत्येकविद्यमानं तत्तत्समुदाये भवदुपलभ्यते, सिकतासु तैलवदि // 31 // त्यादिना / यदप्यत्रोक्तं- यथा मद्याङ्गेष्वविद्यमानाऽपि प्रत्येकं मदशक्तिः समुदाये प्रादुर्भवतीति, तदप्ययुक्तम्, यतस्तत्र न्येवाप० (मु०)। 0 न्यदिन्द्रि० (मु०)10 न्त्यचेतनावन्ति (मु०)।