________________ श्रीसूत्रकृताङ्ग संयोगे चैतन्यमभिव्यज्यते तत्किं तेषां संयोगेऽपि स्वातन्त्र्य एवाऽऽहोस्वित्परस्परापेक्षया, पारतन्त्र्ये इति?, किंचातः?, न श्रुतस्कन्धः 1 नियुक्ति प्रथममध्ययन श्रीशीला० तावत्स्वातन्त्र्ये, यत आह- अण्णगुणाणं चे ति चैतन्यादन्यो गुणों येषां तान्यन्यगुणानि तथाहि-आधारकाठिन्यगुणा पृथिवी। समयः, वृत्तियुतम् द्रवगुणा आपः पक्तिगुणं तेजःचलनगुणो वायुः अवगाहदानगुणमाकाशमिति, यदिवा प्रागभिहिता गन्धादयः पृथिव्यादी- प्रथमोद्देशकः श्रुतस्कन्धः 1 नामेकैकपरिहाण्याऽन्ये गुणाश्चैतन्यादिति, तदेवं पृथिव्यादीन्यन्यगुणानि, चशब्दो द्वितीयविकल्पवक्तव्यतासूचनार्थः, नियुक्ति: 33 // 30 // ज्ञानात्मसिद्धिः चैतन्यगुणे साध्ये पृथिव्यादीनामन्यगुणानां सतां चैतन्यगुणस्य पृथिव्यादीनामेकस्याप्यभावान्न तत्समुदायाच्चैतन्याख्यो। गुण:सिद्ध्यतीति, प्रयोगस्त्वत्र- भूतसमुदाय:स्वातन्त्र्ये सति धर्मित्वेनोपादीयते, न तस्य चैतन्याख्यो गुणोऽस्तीति साध्यो धर्मः, पृथिव्यादीनामन्यगुणत्वात्, यो योऽन्यगुणानां समुदायस्तत्र तत्रापूर्वगुणोत्पत्तिर्न भवतीति, यथा सिकतासमुदाये स्निग्धगुणस्य तैलस्य चोत्पत्तिर्न भवति, घटपटसमुदाये वा स्तम्भाद्याविर्भाव इति, दृश्यते च काये चैतन्यम्, तदात्मगुणो भविष्यति न भूतानामिति / अस्मिन्नेव साध्ये हेत्वन्तरमाह- पश्चिन्दियठाणाणं ति पञ्च च तानि स्पर्शनरसघ्राणचक्षुःश्रोत्राख्यानीन्द्रियाणि तेषां स्थानानि- अवकाशास्तेषां चैतन्यगुणाभावान्न तत्समुदाये चैतन्यम्, इदमत्र हृदयं-लोकायतिकानां हि अपरस्य द्रष्टुरनभ्युपगमादिन्द्रियाण्येव द्रष्टुणि, तेषां च यानि स्थानानि- उपादानकारणानि तेषामचिद्रूपत्वान्न भूतसमुदाये चैतन्यमिति, इन्द्रियाणांचामूनि स्थानानि, तद्यथा-श्रोत्रेन्द्रियस्याकाशं सुषिरात्मकत्वात्, घ्राणेन्द्रियस्य पृथिवी। तदात्मकत्वात्, चक्षुरिन्द्रियस्य तेजस्तद्रूपत्वात्, एवं रसनेन्द्रियस्यापः स्पर्शनेन्द्रियस्य वायुरिति / प्रयोगश्चात्रनेन्द्रियाण्युप // 30 // लब्धिमन्ति, तेषामचेतनगुणारब्धत्वात्, यद्यदचेतनगुणारब्धं तत्तदचेतनम्, यथा घटपटादीनि, एवमपि च भूतसमुदाये O०दन्ये गुणा (मु०)। (c) पक्तृगुणं (मु०)। 0 मेकैकस्या (मु०)। 0 तैलस्य नोत्पत्तिरिति घटपटसमुदाये वा न स्तम्भा० (मु०)। 0 भूतसमुदाये (मु०)