SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 29 // श्रुतस्कन्धः१ प्रथममध्ययन समयः, प्रथमोद्देशकः नियुक्ति: 33 ज्ञानात्मसिद्धिः 8888 चात्र प्रत्यक्षमेव, नानुमानादिकम्, तत्रेन्द्रियेण सार्धं साक्षादर्थस्य संबन्धाभावाव्यभिचारसंभवः, सति च व्यभिचारसंभवे सदृशे च बाधासंभवे तल्लक्षणमेव दूषितं स्यादिति सर्वत्रानाश्वासः, तथा चोक्तं- हस्तस्पर्शादिवान्धेन, विषमे पथि धावता। अनुमानप्रधानेन, विनिपातो न दुर्लभः॥१॥ अनुमानं चात्रोपलक्षणमागमादीनामपि,साक्षादर्थसंबन्धाभावद्धस्तस्पर्शनेनेव प्रवृत्तिरिति / तस्मात्प्रत्यक्षमेवैकं प्रमाणम्, तेन च भूतव्यतिरिक्तस्यात्मनो न ग्रहणम्, यत्तु चैतन्यं तेषूपलभ्यते, तद्भूतेष्वेव कायाकारपरिणतेष्वभिव्यज्यते, मद्याङ्गेषु समुदितेषु मदशक्तिवदिति, तथा- न भूतव्यतिरिक्तं चैतन्यम्, तत्कार्यत्वात्, घटादिवदिति / तदेवं भूतव्यतिरिक्तस्याऽऽत्मनोऽभावाद्भूतानामेव चैतन्याभिव्यक्तिः,जलस्य बुढ्दाभिव्यक्तिवदिति / केषाश्चिलोकायतिकानामाकाशस्यापि भूतत्वेनाभ्युपगमाद्भूतपञ्चकोपन्यासो न दोषायेति / ननु च यदि भूतव्यतिरिक्तोऽपरः कश्चिदात्माख्यः पदार्थो न विद्यते, कथं तर्हि मृत इति व्यपदेश इत्याशङ्कयाह- अथैषां कायाकारपरिणतौ चैतन्याभिव्यक्ती सत्यां तदूर्ध्व तेषामन्यतमस्य विनाशे अपगमे वायोस्तेजों वोभयोर्वा देहिनो देवदत्ताख्यस्य विनाश: अपगमो भवति, ततश्च मृत इति व्यपदेशः प्रवर्तते, न पुनर्जीवापगम इति भूताव्यतिरिक्तचैतन्यवादिपूर्वपक्ष इति // 8 // अत्र प्रतिसमाधानार्थं नियुक्तिकृदाह नि०-पंचण्हं संजोए अण्णगुणाणंच चेयणाइगुणो। पंचिंदियठाणाणं ण अण्णमुणियं मुणइ अण्णो॥३३॥ पञ्चानां पृथिव्यादीनां भूतानां संयोगे कायाकारपरिणामे चैतन्यादिक: आदिशब्दात् भाषाचमणादिकश्च गुणो न भवतीति | प्रतिज्ञा, अन्यादयस्त्वत्र हेतुत्वेनोपात्ताः, दृष्टान्तस्त्वभ्यूह्यः,सुलभत्वात्तस्य नोपादानम्। तत्रेदंचार्वाकः प्रष्टव्यः- यदेतद्भूतानां Oव्येण साक्षा० (मु०)। (r) स्तेजसश्चोभ० (मु०)। // 29 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy