________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 28 // वर्जितमुत्पद्यत इति / तथा वैशेषिका अपि भूतान्यभिहितवन्तः, तद्यथा-पृथिवीत्वयोगात्पृथिवी, सा च परमाणुलक्षणा श्रुतस्कन्धः१ नित्या, व्यणुकादिप्रक्रमनिष्पन्नकार्यरूपतया त्वनित्या, चतुर्दशभिर्गुणै रूपरसगन्धस्पर्शसंख्यापरिणामपृथक्त्वसंयोग प्रथममध्ययनं समयः, विभागपरत्वापरत्वगुरुत्वद्रवत्ववेगाख्यैरुपेता, तथाऽप्त्वयोगादापः, ताश्च रूपरसस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभाग प्रथमोद्देशक: परत्वापरत्वगुरुत्वस्वाभाविकद्रवत्वस्नेहवेगवत्यः, तासु च रूपं शुक्लमेव रसो मधुर एव स्पर्शः शीत एवेति, तेजस्त्वाभि- सूत्रम् संबन्धात्तेजः, तच्च रूपस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वनैमित्तिकद्रवत्ववेगाख्यैरकादशभिर्गुणैर्गुणवत्, भूतेभ्यः तत्र रूपंशुक्लं भास्वरंच, स्पर्श उष्ण एवेति, वायुत्वयोगाद्वायुः,सचानुष्णशीतस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभाग- | उत्पादः परत्वापरत्ववेगाख्यैर्नवभिर्गुणैर्गुणवान् धृतिकम्पशब्दानुष्णाशीतस्पर्शलिङ्गः, आकाशमिति पारिभाषिकी संज्ञा एकत्वात्तस्य, तच्च संख्यापरिमाणपृथक्त्वसंयोगविभागशब्दाख्यैः षड्भिर्गुणैर्गुणवत् शब्दलिङ्गंचेति, एवमन्यैरपि वादिभिर्भूतसद्भावाश्रयणे किमिति लोकायतिकमतापेक्षमेव भूतपञ्चकोपन्यास इति ?, उच्यते, सांख्यादिभिर्हि प्रधानात्साहङ्कारिकं तथा कालदिगात्मादिकं चान्यदपि वस्तुजातमभ्युपेयते, लोकायतिकैस्तु भूतपञ्चकव्यतिरिक्तं नात्मादिकं किञ्चिदभ्युपगम्यते इत्यतस्तन्मताश्रयणेनैव सूत्रार्थो व्याख्यात इति // 7 // यथा चैतत् तथा दर्शयितुमाह- ‘एए पंच महब्भूया' इत्यादिश्लोकः / एतानि अनन्तरोक्तानि पृथिव्यादीनि पञ्च महाभूतानि यानि तेभ्यः कायाकारपरिणतेभ्यः एकः कश्चिच्चिद्रूपो भूताव्यतिरिक्त आत्मा भवति, न भूतेभ्यो व्यतिरिक्तोऽपरः कश्चित्परपरिकल्पितःपरलोकानुयायी सुखदुःखभोक्ता जीवाख्यः पदार्थोऽस्ती 1-8 // 28 // त्येवमाख्यातवन्तस्ते, तथाहि त एवं प्रमाणयन्ति- न पृथिव्यादिव्यतिरिक्त आत्माऽस्ति, तद्वाहकप्रमाणाभावात्, प्रमाणं O हति० (प्र०) हरणमित्यर्थः। हृत्कम्प० (मु०)। 0 मतापेक्षया भूत० (मु०)। 0 व्याख्यायत (मु०)।