________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 27 // श्रुतस्कन्धः प्रथममध्ययन समय: प्रथमोद्देशकः सूत्रम् 7- 8 भूतेभ्य: उत्पादः वरगात्रि! तन्न ते / नहि भीरु! गतं निवर्तते, समुदयमात्रमिदं कलेवरम् // 2 // एवं ते तन्त्रान्तरीयाः स्वसमयार्थवासितान्त:करणाः सन्तो भगवदर्हदुक्तं ग्रन्थार्थमज्ञातपरमार्थाः समतिक्रम्य स्वकीयेषु ग्रन्थेषु सिता:- संबद्धाः कामेषु च सक्ता इति // 6 // साम्प्रतं विशेषेण सूत्रकार एव चार्वाकमतमाश्रित्याऽऽह___संति पंच महन्भूया, इहमेगेसिमाहिया। पुढवी आउ तेऊ वा, वाउ आगासपंचमा॥ सूत्रम् 7 // एए पंच महब्भूया, तेब्भो एगोत्ति आहिया। अह एसिं विणासे उ, विणासो होइ देहिणो॥सूत्रम् 8 // सन्ति विद्यन्ते महान्ति च तानि भूतानि च महाभूतानि, सर्वलोकव्यापित्वान्महत्त्वविशेषणम्, अनेन च भूताभाववादिनिराकरणं द्रष्टव्यम्, इह अस्मिन् लोके एकेषां भूतवादिनां आख्यातानि प्रतिपादितानि तत्तीर्थकृता तैर्वा भूतवादिभिर्बार्हस्पत्यमतानुसारिभिराख्यातानि- स्वयमङ्गीकृतान्यन्येषां च प्रतिपादितानि / तानि चामूनि, तद्यथा- पृथिवी कठिनरूपा, आपो द्रवलक्षणाः, तेज उष्णरूपम्, वायुश्चलनलक्षणः, आकाशंशुषिरलक्षणमिति, तच्च पञ्चमं येषां तानि तथा, एकानि चागोपालाङ्गना प्रसिद्धत्वात् प्रत्यक्षप्रमाणावसेयत्वाच्च न कैश्चिदपह्नोतुं शक्यानि / ननु च साङ्खयादिभिरपि भूतान्यभ्युपगतान्येव, था - सत्त्वरजस्तमोरूपात्प्रधानान्महान्, बुद्धिरित्यर्थः, महतोऽहङ्कारः-अहमितिप्रत्ययः, तस्मादप्यहङ्कारात्षोडशको गण उत्पद्यते, स चायं- पञ्च स्पर्शनादीनि बुद्धीन्द्रियाणि, वाक्पाणिपादपायूपस्थरूपाणि च पञ्च कर्मेन्द्रियाणि, एकादशं मनः, पञ्च तन्मात्राणि, तद्यथा-गन्धरसरूपस्पर्शशब्दतन्मात्राख्यानि, तत्र गन्धतन्मात्रात्पृथिवीगन्धरसरूपस्पर्शवती, रसतन्मात्रादापोरसरूपस्पर्शवत्यः, रूपतन्मात्रात्तेजोरूपस्पर्शवत्, स्पर्शतन्मात्राद्वायुःस्पर्शवान्, शब्दतन्मात्रादाकाशंगन्धरसरूपस्पर्श (c) एतानि साङ्गोपाङ्गानि प्रसिद्धत्वात् (मु०)। 0 तथाहि सांख्यास्तावदेवमूचुः (मु०)। // 27 //