________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 34 // श्रुतस्कन्धः१ प्रथममध्ययन समयः, प्रथमोद्देशक: नियुक्ति: 33 ज्ञानात्मसिद्धिः पलब्धार्थसंकलनाप्रत्ययसद्भावात्, पञ्चगवाक्षान्यान्योपलब्धार्थसंकलनाविधाय्येकदेवदत्तवत्, तथाऽऽत्मा अर्थद्रष्टा नेन्द्रियाणि, तद्विगमेऽपि तदुपलब्धार्थस्मरणात्, गवाक्षोपरमेऽपि तारोपलब्धार्थस्मर्तृदेवदत्तवत्, तथा अर्थापत्त्याऽप्यात्माऽस्तीत्यवसीयते, तथाहि- सत्यपि पृथिव्यादिभूतसमुदाये लेप्यकर्मादौ न सुखदुःखेच्छाद्वेषप्रयत्नादिक्रियाणां सद्भाव इति, अतः सामर्थ्यादवसीयते-अस्ति भूतातिरिक्तः कश्चित्सुखदुःखेच्छादीनां क्रियाणां समवायिकारणं पदार्थः, स चात्मेति,तदेवं प्रत्यक्षानुमानादिपूर्विकाऽन्याऽप्यर्थापत्तिरभ्यूह्या, तस्यास्त्विदं लक्षणं- प्रमाणषट्कविज्ञातो, यत्रार्थो नान्यथाभवन् / अदृष्ट कल्पयेदन्यम्, साऽर्थापत्तिरुदाहृता॥१॥तथाऽऽगमादप्यात्मास्तित्वमवसेयम्, स चायमागमः- अत्थि मे आया उववाइए इत्यादि। यदिवा किमत्रापरप्रमाणचिन्तया?, सकलप्रमाणज्येष्ठेन प्रत्यक्षेणैवात्माऽस्तीत्यवसीयते, तद्गुणस्य ज्ञानस्य प्रत्यक्षत्वात्, ज्ञानगुणस्य च गुणिनोऽनन्यत्वात् प्रत्यक्ष एवात्मा, रूपादिगुणप्रत्यक्षत्वेन घटादिप्रत्यक्षत्ववत्, तथाहि- अहं सुख्यहंदुःख्येवमाद्यहंप्रत्ययग्राह्यश्चात्मा प्रत्यक्षः, अहंप्रत्ययस्य स्वसंविद्रूपत्वादिति, ममेदं शरीरं पुराणं कर्मेति च शरीराद्भेदेन निर्दिश्यमानत्वाद्, इत्यादीन्यन्यान्यपि प्रमाणानि जीवसिद्धावभ्यूह्यानीति / तथा यदुक्तं-'न भूतव्यतिरिक्तं चैतन्यं तत्कार्यत्वात् घटादिवदि' ति, एतदप्यसमीचीनम्, हेतोरसिद्धत्वात्, तथाहि-न भूतानां कार्यं चैतन्यम्, तेषामतद्गुणत्वात् भूतकार्यचैतन्ये संकलनाप्रत्ययासंभवाच्च, इत्यादिनोक्तप्रायम्, अतोऽस्त्यात्मा भूतव्यतिरिक्तो ज्ञानाधार इति स्थितम् // ननु च किं ज्ञानाधारभूतेनात्मना ज्ञानाद्भिनेनाश्रितेन?, यावता ज्ञानादेव सर्वसंकलनाप्रत्ययादिकं सेत्स्यति, किमात्मनाऽन्तर्गडुकल्पेनेति, तथाहि- ज्ञानस्यैव चिद्रूपत्वाद्भूतैरचेतनैः कायाकारपरिणतैः सह संबन्धेसति सुखदुःखेच्छाद्वेषप्रयत्नक्रियाः प्रादुष्षन्ति तथा संकलनाप्रत्ययो O०दप्यस्तित्व० (मु०)। (c) अस्ति मे आत्मौपपातिकः। 0 पटादिप्रत्यक्षवत् (मु०)। (r) प्रादुष्यन्ति (मु०)। // 34 // P