SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 24 // समय: सूत्रम् 3-4 बध्यः तदेवं स्वत: परिग्रहं परिगृह्यान्यान्वा ग्राहयित्वा गृह्णतोवाऽन्याननुज्ञाय दुःखयतीति दुःखं- अष्टप्रकारं कर्म तत्फलंवा असातो- श्रुतस्कन्धः१ दयादिरूपं तस्मान्न मुच्यत इति, परिग्रहाग्रह एव परमार्थतोऽनर्थमूलं भवति, तथा चोक्तं- ममाहमिति चैष यावदभिमानदाहज्वरः, प्रथममध्ययन कृतान्तमुखमेव तावदिति न प्रशान्त्युन्नयः / यश:सुखपिपासितैरयमसावनोंत्तरैः, परैरपसद: कुतोऽपि कथमप्यपाकृष्यते॥ 1 // तथा प्रथमोद्देशकः द्वेषस्यायतनं धृतेरपचयः क्षान्तेः प्रतीपो विधियाक्षेपस्य सुहृन्मदस्य भवनं ध्यानस्य कष्टो रिपुः। दुःखस्य प्रभवः सुखस्य निधनं पापस्य आरभ्यममत्वे वासो निजः, प्राज्ञस्यापि परिग्रहो ग्रह इव क्लेशाय नाशाय च // 2 // तथा च परिग्रहेष्वप्राप्तनष्टेषु काङ्क्षाशोको प्राप्तेषु च रक्षणमुपभोगे चातृप्तिरित्येवं परिग्रहे सति दुःखात्मकाढून्धनान्न मुच्यत इति // 2 // परिग्रहवतश्चावश्यंभाव्यारम्भेस्तस्मिंश्चल प्राणातिपात इति दर्शयितुमाह___सयं तिवायए पाणे, अदुवाऽन्नेहिं घायए। हणंतं वाऽणुजाणाइ, वेरं वडइ अप्पणो॥ सूत्रम् 3 // जस्सिंकुले समुप्पन्ने, जेहिं वा संवसे नरे। ममाई लुप्पई बाले, अण्णमण्णेहिं मुच्छिए।सूत्रम् 4 // यदिवा- प्रकारान्तरेण बन्धनमेवाह-'सयं तीत्यादि', स परिग्रहवानसंतुष्टो भूयस्तदर्जनपरः समर्जितोपद्रवकारिणि च द्वेषमुपगतः स्वयं आत्मना त्रिभ्यो मनोवाक्कायेभ्य आयुर्बलशरीरेभ्यो वा पातयेत् च्यावयेत् प्राणान् प्राणिनः, अकारलोपाद्वा अतिपातयेत् प्राणानिति, प्राणाश्चामी- पञ्चेन्द्रियाणि त्रिविधं बलं च, उच्छ्रासनिश्वासमथान्यदायुः / प्राणा दशैते भगवद्भिक्तास्तेषांक वियोजीकरणं तु हिंसा // 1 // तथा स परिग्रहाग्रही न केवलं स्वतो व्यापादयति अपरैरपि घातयति घ्नतश्चान्यान् समनुजानीते, तदेवं कृतकारितानुमतिभिः प्राण्युपमर्दनेन जन्मान्तरशतानुबन्ध्यात्मनो वैरं वर्धयति, ततश्चदुःखपरम्परारूपाद् बन्धनान्न मुच्यत 7 गतस्तत: स्वयं (मु०)। ॐ अष्टप्रकारं कर्म चू०। // 24 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy