________________ श्रुतस्कन्ध:१ प्रथममध्ययन समयः, श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 23 // प्रथमोद्देशक: सूत्रम् 2 बन्धनोपदेशः बन्धप्रश्नच आचाराङ्गेऽभिहितं- जीवो छक्कायपरूवणा य तेसिं वहेण बंधोत्ति इत्यादि तत्सर्वं बुध्येतेत्यादि, यदिवेह केषाञ्चिद्वादिनां ज्ञानादेव मुक्त्यवाप्तिरन्येषां क्रियामात्रात्, जैनानांतूभाभ्यां निःश्रेयसाधिगम इत्येतदनेन श्लोकेन प्रतिपाद्यते। तत्रापि ज्ञानपूर्विका क्रिया फलवती भवतीत्यादौ बुध्यतेत्यनेन ज्ञानमुक्तं त्रोटयेदित्येनेन च क्रियोक्ता, तत्रायमर्थो- बुध्येत अवगच्छेत् बोधं विदध्यादित्युपदेशः, किं पुनस्तद्रुध्येतात आह- बन्धनं बध्यते जीवप्रदेशैरन्योऽन्यानुवेधरूपतया व्यवस्थाप्यत इति | बन्धनं-ज्ञानावरणाद्यष्टप्रकारं कर्म तद्धेतवो वा मिथ्यात्वाविरत्यादयः परिग्रहारम्भादयोवा, नच बोधमात्रादभिलषितार्थावाप्तिर्भवतीत्यत: क्रियां दर्शयति- तच्च बन्धनं परिज्ञाय विशिष्टया क्रियया- संयमानुष्ठानरूपया त्रोटयेद् अपनयेदात्मनः पृथक्कुर्यात्परित्यजेद्वा, एवं चाभिहिते जम्बूस्वाम्यादिको विनेयो बन्धादिस्वरूपं विशिष्टं जिज्ञासुः पप्रच्छ- किमाह किमुक्तवान् बन्धनं वीर: तीर्थकृत्?, किंवा जानन् अवगच्छंस्तद्वन्धनं त्रोटयति ततो वा त्रुट्यति?, इति श्लोकार्थः॥१॥ बन्धनप्रश्ननिर्वचनायाह चित्तमंतमचित्तंवा, परिगिज्झ किसामवि / अन्नं वा अणुजाणाइ, एवं दुक्खा ण मुचड़।सूत्रम् 2 // 8 इह बन्धनं कर्म तद्धेतवो वाऽभिधीयन्ते, तत्र न निदानमन्तरेण निदानिनो जन्मेति निदानमेव दर्शयति,तत्रापि सर्वारम्भाः दर्शयति, तत्रापि सर्वारम्भाः कर्मोपादानरूपाःप्रायश आत्मात्मीयग्रहोत्थाना इतिकृत्वाऽऽदौ परिग्रहमेव दर्शितवान्, चित्तंउपयोगो ज्ञानं तद्विद्यते यस्य तच्चित्तवत्-द्विपदचतुष्पदादि, ततोऽन्यदचित्तवत्-कनकरजतादि, तदुभयरूपमपि परिग्रहं परिगृह्य कृशमपि स्तोकमपि तृणतुषादिकमपीत्यर्थः, यदिवा कसनं कस:- परिग्रहग्रहणबुद्ध्या जीवस्य गमनपरिणाम इतियावत्, 0एकान्तपरोक्षे चू०। ७०प्रश्नस्वरूपनिर्वच० (मु०)। 0 कर्मणो बन्धनत्वपक्षे /