SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 22 // बन्धप्रश्नश्च यते, यथा स्वप्नभोजने तृप्त्यभाव इति / तृतीयोद्देशके त्वयमर्थाधिकारः, तद्यथा- आधाकर्मगतविचारस्तद्भोजिनां च। श्रुतस्कन्धः 1 दोषोपदर्शनमिति, तथा कृतवादी च भण्यते, तद्यथा-ईश्वरेण कृतोऽयं लोकः, प्रधानादिकृतोवा, यथा च ते प्रवादिन आत्मीय प्रथममध्ययनं समय:, मात्मीयं कृतवादं गृहीत्वोत्थितास्तथा भण्यन्त इति द्वितीयोऽधिकारः, चतुर्थोद्देशकाधिकारस्त्वयम्, तद्यथा- अविरतेषु-3 प्रथमोद्देशक: गृहस्थेषु यानि कृत्यानि-अनुष्ठानानि स्थितानि तैरसंयमप्रधानैः कर्तव्यैः परप्रवादी परतीर्थिक उपमीयत इति / इदानीमनुगमः, सूत्रम् बन्धनोपदेशः सच द्वेधा- सूत्रानुगमो निर्युक्त्यनुगमश्च, तत्र निर्युक्त्यनुगमस्त्रिविधः,तद्यथा-निक्षेपनिर्युक्त्यनुगम उपोद्घातनिर्युक्त्यनुगमः सूत्रस्पर्शिकनियुक्त्यनुगमश्च। तत्र निक्षेपनियुक्त्यनुगमोऽनुगतः, ओघनामनिष्पन्ननिक्षेपयोरन्तर्गतत्वात्, तथा वक्ष्यमाणश्च सूत्रस्य निक्षेप्स्यमानत्वात्। उपोद्घातनिर्युक्त्यनुगमस्तु षड्विंशतिद्वारप्रतिपादकाद्गाथाद्वयादवसेयः, तच्चेदं-‘उद्देसे निद्देसे य' इत्यादि ॥३०-३२॥सूत्रस्पर्शिकनियुक्त्यनुगमस्तु सूत्रे सति भवति, सूत्रं च सूत्रानुगमे, स चावसरप्राप्त एव, तत्रास्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदं बुज्झेजा तिउट्टेजा, बंधणं परिजाणिया। किमाह बंधणं वीरो, किंवा जाणं तिउट्टई?॥सूत्रम् 1 // __ अस्य संहितादिक्रमेण व्याख्या-बुध्येतेत्यादि, सूत्रमिदं सूत्रकृताङ्गादौ वर्तते, अस्य चाचाराङ्गेन सहायं संबन्धः, तद्यथा ®पस्थिताः प्र। तथा च वक्ष्यमाणस्य सूत्रस्य (मु०)10 उद्देसे निइसे य निग्गमे खित्त काल पुरिसे य / कारण पच्चय लक्खण नए समोयारणाणुमए // 1 // किं कइविहं कस्स कहिं केसु कह किच्चिरं हवइ कालं / कइसंतरमविरहिअं भवागरिस फासण निरुत्ती // उद्देशो निर्देशश्च निर्गमः क्षेत्र कालः पुरुषश्च / कारणं प्रत्ययो8 // 22 // लक्षणं नयः समवतारोऽनुमतम् / / 1 // किं कतिविधं कस्य क्व केषु कथं कियच्चिरं भवति कालम् / कति सान्तरमविरहितं भवा आकर्षाः स्पर्शना निरुक्तिः // 2 // 08 प्रसूतिर्निर्गमनमित्यर्थः,-मेघच्छन्ने यथा चन्द्रो, न राजति नभस्तले / उपोद्घातं विना शास्त्रं, तथा न भ्राजते विधौ // 1 // संभवति (मु०) संहिता लक्षिता संहिया य पयं चेव पयत्थो पयविग्गहो / चालणा य पसिद्धी य छव्विहं विद्धि लक्खणं // 1 // इति व्याख्यालक्षणे तस्या एवादौ प्रतिपादनात् / /
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy