________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 21 // श्रुतस्कन्धः१ प्रथममध्ययन समयः, प्रथमोद्देशकः नियुक्तिः 30-32 उद्देशार्थाधिकाराः मतिविकासार्थमुपन्यास इति ॥२९॥साम्प्रतं प्रागुपन्यस्तोद्देशार्थाधिकाराभिधित्सयाऽऽह नि०- महपंचभूय एकप्पए य तज्जीवतस्सरीरे य। तहय अकारयवादी अत्तच्छट्ठो अफलवादी॥३०॥ नि०- बीए नियईवाओ अण्णाणिय तहय नाणवाईओ। कम्मंचयं न गच्छइ चउव्विहं भिक्खुसमयंमि॥३१॥ नि०- तइए आहाकम्मं कडवाईजह य ते पवादीआ। किच्चुवमा य चउत्थे परप्पवाई अविरएसु // 32 // अस्याध्ययनस्य चत्वार उद्देशकाः, तत्राद्यस्य षडाधिकारा आद्यगाथयाऽभिहिताः, तद्यथा पञ्च भूतानि-पृथिव्यप्तेजोवाय्वाकाशाख्यानि महान्ति च तानि सर्वलोकव्यापित्वात् भूतानि च महाभूतानि इत्ययमेकोऽर्थाधिकारः। तथा चेतनाचेतनं सर्वमेवात्मविवर्त इत्यात्माऽद्वैतवादः प्रतिपाद्यत इत्यर्थाधिकारो द्वितीयः। स चासौजीवश्चतज्जीव:- कायाकारोभूतपरिणामः, तदेव च शरीरंजीवशरीरयोरैक्यमितियावदिति तृतीयोऽर्थाधिकारः। तथाऽकारको जीव:सर्वस्याः पुण्यपापक्रियाया इत्येवंवादीति चतुर्थोऽधिकारः। तथाऽऽत्मा षष्ठ इति पञ्चानां भूतानामात्मा षष्ठः प्रतिपाद्यत इत्ययं पञ्चमोऽर्थाधिकारः। तथाऽफलवादीति न विद्यते कस्याश्चित् क्रियायाः फलमित्येवंवादी च प्रतिपाद्यत इति षष्ठोऽर्थाधिकार इति / द्वितीयोद्देशके चत्वारोऽर्थाधिकाराः, तद्यथा- नियतिवादस्तथाऽज्ञानिकमतं ज्ञानवादी च प्रतिपाद्यते, कर्म चयं- उपचयं चतुर्विधमपि न गच्छति भिक्षुसमये शाक्यागमे इति चतुर्थोऽर्थाधिकारः। चातुर्विध्यंतुकर्मणोऽविज्ञोपचितं-अविज्ञानमविज्ञा तयोपचितम्, अनाभोगकृतमित्यर्थः, यथा मातुः स्तनाद्याक्रमणेन पुत्रव्यापत्तावप्यनाभोगान्न कर्मोपचीयते, तथा परिज्ञानं परिज्ञा- केवलेन मनसा पर्यालोचनम्, तेनापि कस्यचित्प्राणिनो व्यापादनाभावात् कर्मोपचयाभाव इति, तथा ईरणमीर्या- गमनं तेन जनितमीर्याप्रत्ययं तदपि कर्मोपचयं न गच्छति, प्राणिव्यापादनाभिसन्धेरभावादिति, तथा स्वप्नान्तिकं-स्वप्नप्रत्ययं कर्म नोपची // 21 //