________________ श्रुतस्कन्ध:१ प्रथममध्ययन समयः, श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 20 // प्रथमोद्देशक: नियुक्ति: 29 अनुयोगद्वाराणि नामस्थापनाद्रव्यक्षेत्रकालकुतीर्थसंगारकुलगणसंकरगण्डीभावभेदात् द्वादशधा समयनिक्षेपः, तत्र नामस्थापने क्षुण्णे, द्रव्यसमयो द्रव्यस्य सम्यगयनं-परिणतिविशेषः स्वभाव इत्यर्थः, तद्यथा-जीवद्रव्यस्योपयोग: पुद्गलद्रव्यस्य मूर्तत्वं धर्माधर्माकाशानां गतिस्थित्यवगाहदानलक्षण:, अथवा यो यस्य द्रव्यस्यावसरो-द्रव्यस्योपयोगकाल इति, तद्यथा- वर्षासु लवणममृतं शरदि जलं गोपयश्च हेमन्ते / शिशिरे चामलकरसो घृतं वसन्ते गुडश्चान्ते।।१॥क्षेत्रसमय:-क्षेत्रं- आकाशं तस्य समय:- स्वभावः, यथा एगेणवि से पुण्णे दोहिवि पुण्णे सयंपि माएज्जा / लक्खसएणवि पुण्णे कोडिसहस्सपि माएज्जा // 1 // यदिवा देवकुरुप्रभृतीनां क्षेत्राणामीदृशोऽनुभावो यदुत तत्र प्राणिनःसुरूपा नित्यसुखिनो निर्वैराश्च भवन्तीति, क्षेत्रस्य वा परिकर्मणावसरः क्षेत्रसमय इति, कालसमयस्तुसुषमादेरनुभावविशेषः, उत्पलपत्रशतभेदाभिव्यङ्गयो वा कालविशेष: कालसमय इति, अत्र च द्रव्यक्षेत्रकालप्राधान्यविवक्षया द्रव्यक्षेत्रकालसमयता द्रष्टव्येति, कुतीर्थसमयः पाखण्डिकानामात्मीयात्मीय आगमविशेषः तदुक्तं वाऽनुष्ठानमिति, संगार:- संकेतस्तद्रूपःसमयःसंगारसमयः, यथा सिद्धार्थसारथिदेवेन पूर्वकृतसंगारानुसारेण गृहीतहरिशवो बलदेवः प्रतिबोधित इति, कुलसमय:- कुलाचारो यथा शकानां पितृशुद्धिः आभीरकाणां मन्थनिकाशुद्धिः, गणसमयो यथा मल्लानामयमाचारो- यथा यो ह्यनाथो मल्लो म्रियते स तैः संस्क्रियते, पतितश्चोद्धियत इति, संकरसमयस्तु संकरो-भिन्नजातीयानां मीलकस्तत्र च समय:- एकवाक्यता, यथा वाममार्गादावनाचारप्रवृत्तावपि गुप्तिकरणमिति, गण्डीसमयो- यथा शाक्यानांभोजनावसरे गण्डीताडनमिति, भावसमयस्तु नोआगमत इदमेवाध्ययनम्,अनेनैवात्राधिकारः,शेषाणांतु शिष्य (r) कालओ भमरो सुगंधं चंदणादि तित्तो निंबो कक्खडो पाहाणो चू०। (r) एकेनापि स पूर्णो द्वाभ्यामपि पूर्णः शतमपि मायात् / लक्षशतेनापि पूर्णः 8 कोटीसहस्रमपि मायात् // 1 // // 20 //