________________ नियक्ति श्रीसूत्रकृताङ्गं श्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 18 // श्रुतस्कन्धः१ प्रथममध्ययन समयः, प्रथमोद्देशकः नियुक्तिः 24-28 अध्ययनार्थाधिकाराः सप्त शतानि विंशत्युत्तराणि भवन्ति, एषा च गणितप्रक्रियाया आदिरुच्यते, तथा यत्तविंशत्युत्तरं शतं लब्धम्, तस्य च पुनः शेषेण पञ्चकेन भागेऽपहृते लब्धा चतुर्विंशतिः, तावन्तस्तावन्तश्च पञ्चकचतुष्कत्रिकद्विकैकका:प्रत्येकं पञ्चमपङ्क्तौ न्यस्याः यावद्विशत्युत्तरं शतमिति, तदधोऽग्रतो न्यस्तमडूमुक्त्वा येऽन्ये तेषां यो यो महत्संख्यः स सोऽधस्ताच्चतुर्विंशतिसंख्य एव तावत् न्यस्यो यावत्सप्त शतानि विंशत्युत्तराणि पञ्चमपङ्क्तावपि पूर्णानि भवन्ति, एषा च गणितप्रक्रिययैवान्त्याऽभिधीयते, एवमनया प्रक्रियया चतुर्विंशते: शेषचतुष्ककेन भागे हृते षट् लभ्यन्ते, तावन्तश्चतुर्थपङ्क्तौ चतुष्ककाः स्थाप्याः, तदधः षट्विकाः,पुनर्द्विका भूय एककाः,पुन: पूर्वन्यायेन पङ्क्तिः पूरणीया,पुनः षट्कस्य शेषत्रिकेणभागे हृते द्वौ लभ्येते, तावन्मात्री त्रिकौ तृतीयपङ्क्तौ ,शेषं पूर्ववत्, शेषपङ्क्तिद्वये शेषमङ्कद्वयंक्रमोत्क्रमाभ्यांव्यवस्थाप्यमिति१२३४,२१३४,१३२४, 3124, 2314, 3214, 1243, 2143, 1423, 4123, 2413, 4213, 1342, 3142, 1432, 1432, 4132, 3412, 4312, 2341, 3241, 2431, 4231, 3421, 4321 / तथा नाम्निषड्विधनाम्न्यवतरति, यतस्तत्र षड्भावाः प्ररूप्यन्ते, श्रुतस्य च क्षायोपशमिकभाववर्तित्वात्। प्रमाणमधुना-प्रमीयतेऽनेनेति प्रमाणम्, तत् द्रव्यक्षेत्रकालभावभेदाच्चतुर्द्धा, तत्रास्याध्ययनस्य क्षायोपशमिकभावव्यवस्थितत्वाद्भावप्रमाणेऽवतारः, भावप्रमाणंच गुणनयसंख्याभेदात्रिधा, तत्रापि गुणप्रमाणे समवतारः, तदपि जीवाजीवभेदा द्विधा, समयाध्ययनस्य क्षायोपशमिकभावरूपत्वात् तस्य च जीवानन्यत्वाज्जीवगुणप्रमाणे समवतारः, जीवगुणप्रमाणमपिज्ञानदर्शनचारित्रभेदात्रिविधम्, तत्रास्य बोधरूपत्वात् ज्ञानगुणप्रमाणे समवतारः, तदपि प्रत्यक्षानुमानोपमानागमभेदाच्चतुर्द्धा, तत्रास्यागमप्रमाणे समवतारः, सोऽपि लौकिकलोकोत्तरभेदाद् द्विधा, तदस्य लोकोत्तरे समवतारः, तस्य च सूत्रार्थतदुभयरूपत्वात्रैविध्यम्, (अस्य त्रिरूपत्वात्) त्रिष्वपि समवतारः, यदिवा-आत्मानन्तरपरम्परभेदादागम