________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 459 // श्रुतस्कन्धः१ चतुर्दशमध्ययनं ग्रन्थः , सूत्रम् 25-27 (604-606) विभज्यवादः भाषास्वरूपादिः ( // 606 // तिबेमि // इति ग्रन्थनामयं चउदसमज्झयणं समत्तं / / (गाथागू 618) यथोक्तानि तीर्थकरगणधरादिभिस्तान्यहर्निशं सुष्ठ शिक्षेत ग्रहणशिक्षया सर्वज्ञोक्तमागमं सम्यग् गृह्णीयाद् आसेवनाशिक्षया त्वनवरतमुधुक्तविहारितयाऽऽसेवेत, अन्येषां च तथैव प्रतिपादयेद्, अतिप्रसक्तलक्षणनिवृत्तये त्वपदिश्यते, सदा ग्रहणासेवनाशिक्षयोर्देशनायां यतेत, सदा यतमानोऽपि यो यस्य कर्तव्यस्य कालोऽध्ययनकालो वा तां वेलामतिलय नातिवेलं वदेद्अध्ययनकर्तव्यमर्यादां नातिलयेत्स (दस) दनुष्ठानं प्रति व्रजेद्वा, यथावसरं परस्पराबाधया सर्वाः क्रियाः कुर्यादित्यर्थः। स एवंगुणजातीयो यथाकालवादी यथाकालचारी च सम्यग्दृष्टिमान् यथावस्थितान् पदार्थान् श्रद्दधानो देशनां व्याख्यानं वा कुर्वन् दृष्टिं सम्यग्दर्शनं न लूषयेत् न दूषयेत्, इदमुक्तं भवति-पुरुषविशेषज्ञात्वा तथा तथा कथनीयमपसिद्धान्तदेशनापरिहारेण यथा यथा श्रोतुः सम्यक्त्वं स्थिरीभवति, न पुनः शङ्कोत्पादनतो दूष्यते, यश्चैवंविधः स जानाति अवबुध्यते भाषितुं प्ररूपयितुं समाधिं सम्यग्दर्शनज्ञानचारित्राख्यं सम्यक्चित्तव्यवस्थानाख्यं वा तं सर्वज्ञोक्तं समाधिं सम्यगवगच्छतीति // 25 // 604 // किंचान्यत्-अलूसए इत्यादि, सर्वज्ञोक्तमागमं कथयन् नो लूषयेत् नान्यथाऽपसिद्धान्तव्याख्यानेन दूषयेत्, तथा न प्रच्छन्नभाषी भवेत् सिद्धान्तार्थमविरुद्धमवदातं सार्वजनीनं तत्प्रच्छन्नभाषणेन न गोपयेत्, यदिवा प्रच्छन्नं वाऽर्थमपरिणताय न भाषेत, तद्धि सिद्धान्तरहस्यमपरिणतशिष्यविध्वंसनेन दोषायैव संपद्यते, तथा चोक्तं-अप्रशान्तमतौ शास्त्रसद्भावप्रतिपादनम् / दोषायाभिनवोदीर्णे, शमनीयमिव ज्वरे॥१॥ इत्यादि, न च सूत्रमन्यत् स्वमतिविकल्पनतः स्वपरत्रायी कुर्वीतान्यथा वा सूत्रं 0प्ररूपयेद् (प्र०)।