________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 458 // श्रुतस्कन्धः१ चतुर्दशमध्ययनं ग्रन्थः , सूत्रम् 25-27 (604-606) विभज्यवादः भाषास्वरूपादिः तथा चोक्तं-सो अत्थो वत्तव्वो जो भण्णइ अक्खरेहिं थोवेहिं / जो पुण थोवो बहुअक्खरेहिं सो होइ निस्सारो॥१॥तथा किंचित्सूत्रमल्पाक्षरमल्पार्थं वा इत्यादि चतुर्भङ्गिका, तत्र यदल्पाक्षरं महार्थं तदिह प्रशस्यत इति // 23 // ६०२॥अपिच-यत्पुनरतिविषमत्वादल्पाक्षरैर्न सम्यगवबुध्यते तत्सम्यग्- शोभनेन प्रकारेण समन्तात्पर्यायशब्दोच्चारणतो भावार्थकथनतश्चालपेद्भाषेत समालपेत्, नाल्पैरेवाक्षरैरुक्त्वा कृतार्थो भवेद्, अपितु ज्ञेयगहनार्थभाषणे सद्धेतुयुक्त्यादिभिः श्रोतारमपेक्ष्य प्रतिपूर्णभाषी स्याद्-अस्खलितामिलिताहीनाक्षरार्थवादी भवेदिति / तथाऽऽचार्यादेः सकाशाद्यथावदर्थं श्रुत्वा निशम्य अवगम्य चसम्यग्यथावस्थितमर्थं यथा गुरुसकाशादवधारितम)- प्रतिपाद्यं द्रष्टुंशीलमस्य स भवति सम्यगर्थदर्शी, स एवंभूतः संस्तीर्थकराज्ञयासर्वज्ञप्रणीतागमानुसारेण शुद्धं अवदातंपूर्वापराविरुद्धं निरवद्यं वचनमभियुजीतोत्सर्गविषये सति उत्सर्गमपवादविषये चापवादं तथा स्वपरसमययोर्यथास्वं वचनमभिवदेत् / एवं चाभियुञ्जन् भिक्षुः पापविवेकं लाभसत्कारादिनिरपेक्षतया काङ्खमाणो निर्दोषं वचनमभिसन्धयेदिति // 24 // 603 // पुनरपि भाषाविधिमधिकृत्याह अहावुइयाई सुसिक्खएज्जा, जइज्जयाणातिवेलं वदेजा / से दिट्टिमं दिट्ठिण लूसएज्जा, से जाणई भासिउंतंसमाहिं। सूत्रम् 25 // ( // 604 // ) अलूसए णो पच्छन्नभासी, णो सुत्तमत्थं च करेज ताई। सत्थारभत्ती अणुवीइ वायं, सुयं च सम्म पडिवाययंति // सूत्रम् 26 // ( // 605 // ) से सुद्धसुत्ते उवहाणवंच, धम्मच जे विंदति तत्थ तत्थ / आदेज्जवक्के कुसले वियत्ते, स अरिहइ भासितं समाहिं। सूत्रम् 27 // Oसोऽर्थो वक्तव्यो यो भण्यतेऽक्षरैः स्तोकैः / यः पुनः स्तोको बहुभिरक्षरैः स भवति निस्सारः॥ 1 // // 45