________________ श्रीसूत्रकृताङ्गं नियुक्ति श्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 457 // सर्वत्रास्खलितं लोकव्यवहाराविसंवादितया सर्वव्यापिनं स्वानुभवसिद्धं वदेद्, अथवा सम्यगर्थान् विभज्य- पृथक्कृत्वा श्रुतस्कन्ध:१ तद्वादं वदेत्, तद्यथा-नित्यवादं द्रव्यार्थतया पर्यायार्थतया त्वनित्यवादं वदेत्, तथा स्वद्रव्यक्षेत्रकालभावैः सर्वेऽपि पदार्थाः चतुर्दश मध्ययन सन्ति, परद्रव्यादिभिस्तु न सन्ति, तथा चोक्तं-सदेव सर्वं को नेच्छेत्स्वरूपादिचतुष्टयात्?। असदेव विपर्यासान्न चेन्न व्यवतिष्ठते॥ ग्रन्थः , ११॥इत्यादिकं विभज्यवादं वदेदिति / विभज्यवादमपि भाषाद्वितयेनैव ब्रूयादित्याह- भाषयोः आद्यचरमयोः सत्यासत्या- सूत्रम् 21-24 (600-603) मृषयोर्द्विकं भाषाद्विकं तद्भाषाद्वयं क्वचित्पृष्टोऽपृष्टो वा धर्मकथावसरेऽन्यदा वा सदा वा व्यागृणीयात् भाषेत्, किंभूतः सन्? विभज्यवादः सम्यक्-सत्संयमानुष्ठानेनोत्थिताः समुत्थिताः- सत्साधव उद्युक्तविहारिणो न पुनरुदायिनृपमारकवत्कृत्रिमास्तैः सम्यगुत्थितैः भाषास्वसह विहरन् चक्रवर्तिद्रमकयोः समतया रागद्वेषरहितो वा शोभनप्रज्ञो भाषाद्वयोपेतः सम्यग्धर्मं व्यागृणीयादिति // 22 // 601 // रूपादिः किश्चान्यत्- तस्यैवं भाषाद्वयेन कथयतः कश्चिन्मेधावितया तथैव तमर्थमाचार्यादिना कथितमनुगच्छन्सम्यगवबुध्येत्, अपरस्तु मन्दमेधावितया वितथं- अन्यथैवाभिजानीयात्, तं च सम्यगनवबुध्यमानं तथा तथा- तेन तेन हेतूदाहरणसधुक्तिप्रकटनप्रकारेण मूर्खस्त्वमसि तथा दुर्दुरूढः खसूचिरित्यादिना कर्कशवचनेनानिर्भर्त्तयन् यथा यथाऽसौ बुध्यते तथा तथा साधुः सुष्ठ बोधयेत् / / न कुत्रचित्क्रुद्धमुखहस्तौष्ठनेत्रविकारैरनादरेण कथयन्मनःपीडामुत्पादयेत्, तथा प्रश्नयतस्तद्भाषामपशब्दादिदोषदुष्टामपि धिम् / मूर्खासंस्कृतमते! किं तवानेन संस्कृतेन पूर्वोत्तरव्याहतेन वोच्चरितेनेत्येवं न विहिंस्यात् न तिरस्कुर्याद् असम्बद्धोद्धट्टनतस्तं प्रश्नयितारं न विडम्बयेदिति / तथा निरुद्धं- अर्थस्तोकं दीर्घवाक्यैर्महता शब्ददर्दुदरणार्कविटपिकाष्टिकान्यायेन न कथयेत् / निरुद्धं वा- स्तोककालीनं व्याख्यानं व्याकरणतर्कादिप्रवेशनद्वारेण प्रसक्त्यानुप्रसक्त्या न दीर्घयेत् न दीर्घकालिकं कुर्यात्, 0 वोच्चारि० (मु०)। ॐ अर्थं स्तोकं (प्र०)। 0 शब्ददईरणा० (प्र०)। // 457 //