SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ भाषास्व श्रीसूत्रकृताङ्ग 24 // ( // 603 // ) | श्रुतस्कन्धः१ नियुक्तियथा परात्मनोहस्यिमुत्पद्येत तथा शब्दादिकं शरीरावयवमन्यान् वा पापधर्मान् सावधान्मनोवाक्कायव्यापारान् न संधयेत् न चतुर्दशश्रीशीला० मध्ययन वृत्तियुतम् विदध्यात्, तद्यथा- इदं छिन्द्धि भिन्द्धि, तथा कुप्रावचनिकान् हास्यप्रायं नोत्प्रासयेत्, तद्यथा- शोभनं भवदीयं व्रतम्, ग्रन्थः , श्रुतस्कन्धः१ तद्यथा- मृद्वी शय्या प्रातरुत्थाय पेया, मध्ये भक्तं पानकं चापराह्ने। द्राक्षाखण्डं शर्करा चार्धरात्रे, मोक्षश्चान्ते शाक्यपुत्रेण दृष्टः॥१॥ सूत्रम् 21-24 // 456 // (600-603) Bइत्यादिकं परदोषोद्भावनप्रायं पापबन्धकमितिकृत्वा हास्येनापि न वक्तव्यम् / तथा ओजो रागद्वेषरहितः सबाह्याभ्यन्तर विभज्यवादः ग्रन्थत्यागाद्वा निष्किञ्चनः सन् तथ्यमपि परमार्थतः सत्यमपि परुषं वचोऽपरचेतोविकारि ज्ञपरिज्ञया विजानीयात्प्रत्याख्यान रूपादिः परिज्ञया च परिहरेत्, यदिवा रागद्वेषविरहादोजाः 'तथ्यं' परमार्थभूतमकृत्रिममप्रतारकं परुष' कर्मसंश्लेषाभावान्निर्ममत्वादल्पसत्त्वैर्दुरनुष्ठेयत्वाद्वा कर्कशमन्तप्रान्ताहारोपभोगाद्वा परुषं- संयमं विजानीयात् तदनुष्ठानतः सम्यगवगच्छेत्, तथा स्वतः कश्चिदर्थविशेष परिज्ञाय पूजासत्कारादिकं वाऽवाप्य न तुच्छो भवेत् नोन्मादं गच्छेत्, तथा न विकत्थयेत् नात्मानं श्लाघयेत् परं वा सम्यगनवबुध्यमानं नो विकत्थयेत् नात्यन्तं चमढयेत्, तथा अनाकुलो व्याख्यानावसरे धर्मकथावसरे वाऽनाविलो. लाभादिनिरपेक्षो भवेत्, तथा सर्वदा अकषायः कषायरहितो भवेद् भिक्षुः साधुरिति ॥२१॥६००॥साम्प्रतं व्याख्यानविधिमधिकृत्याह- भिक्षुः साधुर्व्याख्यानं कुर्वन्नर्वाग्दर्शित्वादर्थनिर्णयं प्रति अशङ्कितभावोऽपि शङ्केत् औद्धत्यं परिहरन्नहमेवार्थस्य वेत्ता नापरः कश्चिदित्येवंगर्वन कुर्वीत किंतु विषममर्थं प्ररूपयन्साशङ्कमेव कथयेद्, यदिवा परिस्फुटमप्यशङ्कितभावमप्यर्थं न तथा कथयेत् यथा परः शङ्केत, तथा विभज्यवाद- पृथगर्थनिर्णयवादं व्यागृणीयात् यदिवा विभज्यवादः- स्याद्वादस्तं 0 व्रतं- मृद्वी (प्र०)। 0 भक्तं मध्ये (प्र०)। 0 तथ्यमिति (मु०)। 9 किञ्चिद० (प्र०)। 9 मानः (मु०)। 9 अकषायी (प्र०)। // 456 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy