________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 448 // श्रुतस्कन्धः 1 चतुर्दशमध्ययनं ग्रन्थः , सूत्रम् 9-12 (588-591) निर्गन्थानां गुणाः स्वतोऽधमेनापिचोदितोऽर्हन्मार्गानुसारेण लोकाचारगत्या वाऽभिहितः परमार्थं पर्यालोच्य तं चोदकं प्रकर्षेण व्यथेत् दण्डादिप्रहारेण पीडयेत् न चापि किञ्चित्परुषं तत्पीडादिकारि वदेत् ब्रूयात्, ममैवायमसदनुष्ठायिनो दोषो येनायमपि मामेवं चोदयति, चोदितश्चैवंविधं भवता असदाचरणं न विधेयमेवंविधं च पूर्वर्षिभिरनुष्ठितमनुष्ठेयमित्येवंविधं वाक्यं तथा करिष्यामीत्येवं मध्यस्थवृत्त्या प्रतिशृणुयाद् अनुतिष्ठेच्च-मिथ्यादुष्कृतादिना निवर्तेत, यदेतच्चोदनं नामैतन्ममैव श्रेयो, यत एतद्भयात्क्वचित्पुनः प्रमादं न कुर्यान्नैवासदाचरणमनुतिष्ठेदिति // 9 // 588 // अस्यार्थस्य दृष्टान्तं दर्शयितुमाह- वने गहने महाटव्यां दिग्भ्रमेण कस्यचिद्व्याकुलितमतेर्नष्टसत्पथस्य यथा केचिदपरे कृपाकृष्टमानसा अमूढाः सदसन्मार्गज्ञाः कुमार्गपरिहारेण प्रजानां हितं. अशेषापायरहितमीप्सितस्थानप्रापकं मार्गं पन्थानं अनुशासति प्रतिपादयन्ति, स च तैः सदसद्विवेकिभिः सन्मार्गावतरण सित आत्मनः श्रेयो मन्यते, एवं तेनाप्यसदनुष्ठायिना चोदितेन न कुपितव्यम्, अपितु ममायमनुग्रह इत्येवं मन्तव्यम्, यदेतद् बुद्धाः सम्यगनुशासयन्ति-सन्मार्गेऽवतारयन्ति पुत्रमिव पितरः तन्ममैव श्रेय इति मन्तव्यम्॥१०॥५८९॥पुनरप्यस्यार्थस्य पुष्ट्यर्थमाह- अथे त्यानन्तर्यार्थे वाक्योपन्यासार्थे वा, यथा तेन मूढेन सन्मार्गावतारितेन तदनन्तरं तस्य अमूढस्य सत्पथोपदेष्टः पुलिन्दादेरपि परमुपकारं मन्यमानेन पूजा विशेषयुक्ता कर्तव्या, एवमेतामुपमा उदाहृतवान् अभिहितवान् वीरः तीर्थकरोऽन्यो वा गणधरादिकः अनुगम्य बुद्धा अर्थं परमार्थं चोदनाकृतं परमोपकारं सम्यगात्मन्युपनयति, तद्यथा- अहमनेन मिथ्यात्ववनाजन्मजरामरणाद्यनेकोपद्रवबहुलात्सदुपदेशदानेनोत्तारितः, ततो मयाऽस्य परमोपकारिणोऽभ्युत्थानविनयादिभिः पूजा विधेयेति / 0 तत्पीडाकारि (प्र०)। (c) कश्चित् पुनः (प्र०)। 0 वतारणतोऽनुशा० (प्र०)। 0 बुद्धा मां सम्यग० (प्र०)। // 448 //