SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 16 // 24-28 उपसर्गासहिष्णोः स्त्रीवशवर्तिनोऽवश्यं नरकेषूपपात इति, षष्ठे पुनः एवमिति अनुकूलप्रतिकूलोपसर्गसहनेन स्त्रीदोषवर्जनेन च श्रुतस्कन्धः१ भगवान् महावीरो जेतव्यस्य कर्मणः संसारस्य वा पराभवेन जयमाह ततस्तथैव यत्नं विधत्त यूयमिति शिष्याणामुपदेशो दीयते / प्रथममध्ययनं समयः, सप्तमे त्विदमभिहितम्, तद्यथा- नि:शीला- गृहस्थाः कुशीलास्तीर्थिकाः पार्श्वस्थादयो वा ते परित्यक्ता येन साधुना स. प्रथमोद्देशकः परित्यक्तनिःशीलकुशील इति, तथा सुशीला- उद्युक्तविहारिण: संविग्नाः, तत्सेवाशील: शीलवान् भवतीति, अष्टमे त्वेतत्प्रति- नियुक्तिः पाद्यते, तद्यथा- ज्ञात्वा वीर्यद्वयं पण्डितवीर्ये प्रयत्नो विधेय इति, नवमे अर्थाधिकारस्त्वयम्, तद्यथा- यथाऽवस्थितो धर्मः अध्ययनार्थाकथ्यते, दशमे तु समाधिः प्रतिपाद्यते, एकादशेतु सम्यग्दर्शनज्ञानचारित्रात्मको मोक्षमार्गः कथ्यते, द्वादशे त्वयमर्थाधिकारः, धिकाराः तद्यथा- समवसृता अवतीर्णा व्यवस्थिताश्चतुर्यु मतेषु क्रियाऽक्रियाऽज्ञानवैनयिकाख्येष्वभिप्रायेषु त्रिषष्ट्युत्तरशतत्रयसंख्या: पाषण्डिनः स्वीयं स्वीयमर्थं प्रसाधयन्तः समुत्थितास्तदुपन्यस्तसाधनदोषोद्भावनतो निराक्रियन्ते, त्रयोदशे त्विदमभिहितम्, तद्यथा- सर्ववादिषु कपिलकणादाक्षपादशौद्धोदनिजैमिनिप्रभृतिमतानुसारिषु कुमार्गप्रणेतृत्वं साध्यते, चतुर्दशेतु ग्रन्थाख्ये|ऽध्ययनेऽयमर्थाधिकारः, तद्यथा- शिष्याणां गुणदोषकथना, तथा शिष्यगुणसम्दुपेतेन च विनेयेन नित्यं गुरुकुलवासो विधेय। इति, पञ्चदशे त्वादानीयाख्येऽध्ययनेऽर्थाधिकारोऽयम्, तद्यथा-आदीयन्ते- गृह्यन्ते उपादीयन्ते इत्यादानीयानि- पदान्यर्था / वा ते च प्रागुपन्यस्तपदैरर्थश्च प्रायशोऽत्र संकलिताः, तथा आयतं चरित्रं- सम्यक्चरित्रं मोक्षमार्गप्रसाधकं तच्चात्र व्यावय॑त. इति, षोडशे तु गाथाख्येऽल्पग्रन्थेऽध्ययनेऽयमर्थो व्यावर्ण्यते, तद्यथा-पञ्चदशभिरध्ययनैर्योऽर्थोऽभिहितः सोऽत्र पिण्डितवचनेन / // 16 // स्त्रीवशगस्य प्रा0 कुशीलास्तु अन्यतीर्थिकाः (मु०)। संविग्ना:-संवेगमग्नास्तत्से० (मु०)10 विधीयते (मु०) 0 गुणानुरूपगु० प्र०। 88888888
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy