________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 442 // (580-583) कुर्यात्, यथा हि आतुरः सम्यग्वैद्योपदेशं कुर्वन् श्लाघां लभते रोगोपशमंच एवं साधुरपि सावद्यग्रन्थपरिहारी पापकर्मभेषज- श्रुतस्कन्धः१ स्थानभूतान्याचार्यवचनानि विदधदपरसाधुभ्यः साधुकारमशेषकर्मक्षयं चावाप्नोतीति॥१॥५८०॥यः पुनराचार्योपदेश चतुर्दश मध्ययनं मन्तरेण स्वच्छन्दतया गच्छान्निर्गत्य एकाकिविहारितां प्रतिपद्यतेसच बहुदोषभाग्भवतीत्यस्यार्थस्य दृष्टान्तमाविर्भावयन्नाह ग्रन्थः , 'यथे'ति दृष्टान्तोपप्रदर्शनार्थः यथा येन प्रकारेण द्विजपोतः पक्षिशिशुरव्यक्तः, तमेव विशिनष्टि- पतन्ति- गच्छन्ति तेनेति / सूत्रम् 1-4 पत्रं-पक्षपुटं न विद्यते पत्रजातं- पक्षोद्भवो यस्यासावपत्रजातस्तं तथा स्वकीयादावासकात्- स्वनीडात् प्लवितुं- उत्पतितुं निर्गन्थानां मन्यमानं तत्र तत्र पतन्तमुपलभ्य तं द्विजपोतं अचाइयं ति पक्षाभावाद्न्तुमसमर्थमपत्रजातमितिकृत्वा मांसपेशीकल्पं ढङ्कादयः / गुणाः क्षद्रसत्त्वाः पिशिताशिनः अव्यक्तगमं गमनाभावे नंष्टुमसमर्थं हरेयुः चवादिनोत्क्षिप्य नयेयुर्व्यापादयेयुरिति // 2 // 581 // एवं दृष्टान्तं प्रदर्श्य दार्शन्तिकं प्रदर्शयितुमाह- एव मित्युक्तप्रकारेण, तुशब्दः पूर्वस्माद्विशेषं दर्शयति, पूर्वं ह्यसंजातपक्षत्वादव्यक्तता प्रतिपादिता इह त्वपुष्टधर्मतयेत्ययं विशेषो, यथा द्विजपोतमसंजातपत्रं स्वनीडान्निर्गतं क्षुद्रसत्त्वा विनाशयन्ति एवं शिक्षकमप्यभिनवप्रव्रजितं सूत्रार्थानिष्पन्नमगीतार्थं अपुष्टधर्माणसम्यगपरिणतधर्मपरमार्थं सन्तमनेके पापधर्माणः पाषण्डिकाः प्रतारयन्ति, प्रतार्य च गच्छसमुद्रान्निःसारयन्ति, निःसारितं च सन्तं विषयोन्मुखतामापादितमपगतपरलोकभयमस्माकं वश्यमित्येवं मन्यमानाः यदिवा बुसिमन्ति चारित्रं तद् असदनुष्ठानतो निःसारं मन्यमाना अजातपक्षं द्विजशावमिव पक्षिपोतमिव ढङ्कादयः पापधर्माणो मिथ्यात्वाविरतिप्रमादकषायकलुषितान्तरात्मानः कुतीर्थिकाः स्वजना राजादयो वाऽनेकेबहवो हृतवन्तो हरन्ति हरिष्यन्तिचेति, कालत्रयोपलक्षणार्थ भूतनिर्देश इति, तथाहि-पाषण्डिका एवमगीतार्थं प्रतारयन्ति, तद्यथा- युष्मदर्शने 0 संजातपक्ष (मु०)। 0 ०मभिनव (मु०)। 0 समाप्तावितिस्तेन न प्रथमा। // 442