________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 443 // (580-583) नाग्निप्रज्वालनविषापहारशिखाच्छेदादिकाः प्रत्यया दृश्यन्ते, तथाऽणिमाद्यष्टगुणमैश्वर्यं च नास्ति, तथा न राजादिभिर्बहुभि- श्रुतस्कन्धः१ राश्रितम् , याऽप्यहिंसोच्यते भवदागमे साऽपि जीवाकुलत्वाल्लोकस्य दुःसाध्या, नापि भवतांस्नानादिकं शौचमस्तीत्यादि चतुर्दश मध्ययनं काभिःशठोक्तिभिरिन्द्रजालकल्पाभिर्मुग्धजनं प्रतारयन्ति, स्वजनादयश्चैवं विप्रलम्भयन्ति, तद्यथा- न भवन्तमन्तरेणास्माकं कश्चिदस्ति पोषकः पोष्यो वा, त्वमेवास्माकं सर्वस्वम्, त्वया विना सर्वं शून्यमाभाति, तथा शब्दादिविषयोपभोगामन्त्रणेन। सूत्रम् 1-4 सद्धर्माच्च्यावयन्ति, एवं राजादयोऽपि द्रष्टव्याः, तदेवमपुष्टधर्माणमेकाकिनं बहुभिः प्रकारैः प्रतार्यापहरेयुरिति // 3 // 582 // निर्गन्थानां तदेवमेकाकिनः साधोर्यतो बहवो दोषाः प्रादुर्भवन्ति अतः सदा गुरुपादमूले स्थातव्यमित्येतद्दर्शयितुमाह- अवसानं गुरोरन्तिके गुणाः स्थानं तद्यावज्जीवं समाधि सन्मार्गानुष्ठानरूपं इच्छेद् अभिलषेत् मनुजो मनुष्यः साधुरित्यर्थः, स एव च परमार्थतो मनुष्यो यो यथाप्रतिज्ञातं निर्वाहयति, तच्च सदा गुरोरन्तिके व्यवस्थितेन सदनुष्ठानरूपं समाधिमनुपालयता निर्वाह्यते नान्यथेत्येतद्दर्शयतिगुरोरन्तिके अनुषितः अव्यवस्थितः स्वच्छन्दविधायी समाधेः सदनुष्ठानरूपस्य कर्मणो यथाप्रतिज्ञातस्य वा नान्तकरोऽनन्तकरो भवतीत्येवं ज्ञात्वासदा गुरुकुलवासोऽनुसर्तव्यः, तद्रहितस्य विज्ञानमुपहास्यप्रायं भवतीति, उक्तंच- न हि भवति निर्विगोपकमनुपासितगुरुकुलस्य विज्ञानम् / प्रकटितपश्चाद्भागं पश्यत नृत्तं मयूरस्य॥१॥तथाऽजांगलविलग्नवालुङ्कां पाणिप्रहारेण प्रगुणां। दृष्ट्वाऽपरोऽनुपासितगुरुरज्ञो राज्ञीं संजातगलगण्डां पाणिप्रहारेण व्यापादितवान्, इत्यादयः अनुपासितगुरोर्बहवो दोषाः संसारवर्धनाद्या भवन्तीत्यवगम्यानया मर्यादया गुरोरन्तिके स्थातव्यमिति दर्शयति- अवभासयन् उद्भासयन् सम्यगनुतिष्ठन् द्रव्यस्य मुक्तिगमनयोग्यस्य सत्साधो रागद्वेषरहितस्य सर्वज्ञस्य वा वृत्तं- अनुष्ठानं तत्सदनुष्ठानतोऽवभासयेद्, धर्मकथिकः 0 तद्यथा- आयुष्मन् न भव० (मु०)। 0 नान्तकरो भवती० (मु०)। 0 नृत्यं (प्र० मु०)। 7 वालुकां (मु०)।