________________ श्रुतस्कन्धः१ प्रथममध्ययन समयः, प्रथमोद्देशक: नियुक्तिः |22-23 सूत्रनिरुक्तम् / श्रीसूत्रकृताङ्गं समुपलभ्यन्ते, यदिवा क्वचिद्देशग्रहणं क्वचित्सर्वार्थोपादानमित्यादि, यैश्च पदैस्ते अर्थाः प्रतिपाद्यन्ते तानि पदानि सिद्धानि नियुक्ति प्रसिद्धानि न साधनीयानि,तथाऽनादीनि च तानि नेदानीमुत्पाद्यानि, तथा चेयं द्वादशाङ्गी शब्दार्थरचनाद्वारेण विदेहेषु नित्या श्रीशीला० वृत्तियुतम् भरतैरावतेष्वपि शब्दरचनाद्वारेणैव प्रति तीर्थकरं क्रियते अन्यथा तु नित्यैव। एतेन च 'उच्चरितप्रध्वंसिनो वर्णा' इत्येतश्रुतस्कन्धः१8 निराकृतं वेदितव्यमिति // 21 // साम्प्रतं सूत्रकृतस्य श्रुतस्कन्धाध्ययनादिनिरूपणार्थमाह॥ 14 // | नि०- दो चेव सुयक्खंधा अज्झयणाइंच हुंति तेवीसं। तेत्तीसुद्देसणकाला आयाराओ दुगुणमंग॥२२॥ द्वावत्र श्रुतस्कन्धौ, त्रयोविंशतिरध्ययनानि, त्रयस्त्रिंशदुद्देशनकालाः, ते चैवं भवन्ति- प्रथमाध्ययने चत्वारो द्वितीये त्रयस्तृतीये चत्वारः एवं चतुर्थपञ्चमयो द्वौ तथैकादशस्वेकसरकेष्वेकादाशैवेति प्रथमश्रुतस्कन्धे, तथा द्वितीयश्रुतस्कन्धे सप्ताध्ययनानि तेषां सप्तैवोद्देशनकालाः,एवमेते सर्वेऽपि त्रयस्त्रिंशदिति, एतच्चाचाराङ्गाद्विगुणमङ्गम्, षट्त्रिंशत्पदसहस्रपरिमाणमित्यर्थः॥२२॥ साम्प्रतं सूत्रकृताङ्गनिक्षेपानन्तरं प्रथमश्रुतस्कन्धस्य नामनिष्पन्ननिक्षेपाभिधित्सयाऽऽह नि०- निक्खेवो गाहाए चउव्विहो छव्विहो य सोलससु। निक्खेवो य सुयंमि य खंधे य चउव्विहो होइ // 23 // इहाद्यश्रुतस्कन्धस्य गाथाषोडशक इति नाम, गाथाख्यं षोडशमध्ययनं यस्मिन् श्रुतस्कन्धे स तथेति, तत्र गाथाया नामस्थापनाद्रव्यभावरूपश्चतुर्विधो निक्षेपः, नामस्थापने प्रसिद्ध, द्रव्यगाथा द्विधा- आगमतो नोआगमतश्च, तत्र आगमतो ज्ञाता तत्र चानुपयुक्तः 'अनुपयोगो द्रव्य'मितिकृत्वा, नोआगमतस्तु त्रिधा-ज्ञशरीरद्रव्यगाथा भव्यशरीरद्रव्यगाथा ताभ्यां विनिर्मुक्ता 0पदानि प्रकर्षण सिद्धा० (मु०)। // 14 //