SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग जीवप्रदेशेभ्यः पृथक्करणरूपा तया च हेतुभूतया, सूत्रकृताङ्गं कृतमिति संबन्धः, तथाहि- यथायथा गणधराः सूत्रकरणायोद्यम श्रुतस्कन्धः१ नियुक्तिकुर्वन्ति तथा तथा कर्मपरिशाटना भवति, यथा यथा च कर्मपरिशाटना तथा तथा ग्रन्थरचनायोद्यमः संपद्यत इति, एतदेव प्रथममध्ययनं श्रीशीला० समयः, वृत्तियुतम् गाथापश्चार्धन दर्शयति- तदुभययोगेनेति अक्षरगुणमतिसंघटनायोगेन कर्मपरिशाटनायोगेन च, यदिवा वाग्योगेन मनोयोगेन प्रथमोद्देशकः श्रुतस्कन्धः१ च कृतमिदं सूत्रं तेन सूत्रकृतमिति // 20 // इहानन्तरं सूत्रकृतस्य निरुक्तमुक्तम्, अधुना सूत्रपदस्य निरुक्ताभिधित्सयाऽऽह a. 8 नियुक्ति: 21 // 13 // सूत्रनिरुक्तम् नि०- सुत्तेण सुत्तिया चिय अत्था तह सूइया य जुत्ता य। तो बहुविहं पउत्ता पया य सिद्धा अणादीया // 21 // * अर्थस्य सूचनात्सूत्रं तेन च सूत्रेण केचिदर्थाः साक्षात्सूत्रिता- मुख्यतयोपात्ताः, तथाऽपरे सूचिता- अर्थापत्त्याक्षिप्ताः साक्षादनुपादानेऽपि दध्यानयनचोदनया तदाधारानयनचोदनावदिति, एवं च कृत्वा चतुर्दशपूर्वविदः परस्परं षट्स्थानपतिता भवन्ति, तथा चोक्तं-अक्खरलंभेण समा ऊणहिया हुंति मतिविसेसे / तेऽविय मईविसेसा सुयणाणऽब्भंतरे जाण // 1 // तत्र ये साक्षादुपात्तास्तान्प्रति सर्वेऽपि तुल्याः, ये पुनःसूचितास्तदपेक्षया कश्चिदनन्तभागाधिकमर्थं वेत्त्यपरोऽसंख्येयभागाधिकमन्यः संख्येयभागाधिकं तथाऽन्यः संख्येयासंख्येयानन्तगुणमिति, ते च सर्वेऽपि युक्ता युक्त्युपपन्नाः सूत्रोपात्ता एव वेदितव्याः, तथा चाभिहितं- तेऽविय मईविसेसे इत्यादि, ननु किं सूत्रोपात्तेभ्योऽन्येऽपिकेचनार्थाः सन्ति? येन तदपेक्षया चतुर्दशपूर्वविदा षट्स्थानपतितत्वमुद्धृष्यते, बाढं विद्यन्ते, यतोऽभिहितं- पण्णवणिज्जा भावा अणंतभागो उ अणभिलप्पाणं / पण्णवणिज्जाणं पुण अणंतभागो सुयनिबद्धो // 1 // यतश्चैवं ततस्ते अर्था आगमे बहुविधं प्रयुक्ताः- सूत्रैरुपात्ताः केचन साक्षात्केचिदर्थापत्त्या // 13 // 0 प्रोताः। ॐ युज्यमानाः। 0 चउब्विहेण जाइबंधेण पंचावयवविशेषेण वा चू०। 0 अक्षरलाभेन समा ऊनाधिका भवन्ति मतिविशेषैः / तानपि च 8मतिविशेषान् श्रुतज्ञानाभ्यन्तरे जानीहि // 1 // प्रज्ञापनीया भावा अनन्तभाग एवानभिलाप्यानाम् / प्रज्ञापनीयानां पुनरनन्तभागः श्रुतनिबद्धः // 1 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy