________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्ध:१ // 12 // नि०- सोऊण जिणवरमतं गणहारी काउ तक्खओवसमं / अज्झवसाणेण कयं सूत्तमिणं तेण सूयगडं // 18 // श्रुत्वा निशम्य जिनवराणां- तीर्थकराणां मतं- अभिप्रायं मातृकादिपदं गणधरैः गौतमादिभिः कृत्वा तत्र' ग्रन्थरचने क्षयोपशमम्, तत्प्रतिबन्धककर्मक्षयोपशमाद्दत्तावधानैरितिभावः, शुभाध्यवसायेन च सता कृतमिदं सूत्रं तेन सूत्रकृतमिति // 18 // इदानी कस्मिन् योगे वर्तमानैस्तीर्थकृद्भिर्भाषितं ? कुत्र वा गणधरैदृब्धमित्येतदाह नि०- वइजोगेण पभासियमणेगजोगंधराण साहूणं / तो वयजोगेण कयंजीवस्स सभावियगुणेण // 19 // तत्र तीर्थकृद्भिः क्षायिकज्ञानवर्तिभिर्वाग्योगेनार्थः प्रकर्षण भाषितः प्रभाषितो गणधराणाम्, ते च न प्राकृतपुरुषकल्पाः किं त्वनेकयोगधराः, तत्र योग:-क्षीराश्रवादिलब्धिकलापसंबन्धस्तं धारयन्तीत्यनेकयोगधरास्तेषाम्, प्रभाषितमिति सूत्रकृताङ्गापेक्षया नपुंसकता, साधवश्चात्र गणधरा एव गृह्यन्ते, तदुद्देशेनैव भगवतामर्थप्रभाषणादिति, ततोऽर्थ निशम्य गणधरैरपि वाग्योगेनैव कृतम्, तच्च जीवस्य स्वाभाविकेन गुणेनेति स्वस्मिन् भावे भव: स्वाभाविकः प्राकृत इत्यर्थः, प्राकृतभाषयेत्युक्तं भवति, न पुनः संस्कृतया ललिट्शप्प्रकृतिप्रत्ययादिविकारविकल्पनानिष्पन्नयेति // 19 // पुनरन्यथा सूत्रकृतनिरुक्तमाह नि०- अक्खरगुणमतिसंघायणाएँ कम्मपरिसाडणाए य / तदुभयजोगेण कयं सुत्तमिणं तेण सूत्तगडं // 20 // अक्षराणि- अकारादीनि तेषां गुणः- अनन्तगमपर्यायवत्त्वमुच्चारणं वा, अन्यथाऽर्थस्य प्रतिपादयतुिमशक्यत्वात्, मतेःमतिज्ञानस्य संघटना मतिसंघटना, अक्षरगुणेन मतिसंघटना अक्षरगुणमतिसंघटना, भावश्रुतस्य द्रव्यश्रुतेन प्रकाशनमित्यर्थः, अक्षरगुणस्य वा मत्या-बुद्ध्या संघटना रचनेतियावत् तयाऽक्षरगुणमतिसंघटनया, तथा कर्मणां- ज्ञानावरणादीनां परिशाटना (r) सुत्तगडं (प्र०)। 0 मातृकापदादिकं (प्र०)। श्रुतस्कन्धः१ प्रथममध्ययन समयः, प्रथमोद्देशक: नियुक्ति: 18 रचनायां स्थित्यनुभावबन्धाद्यवस्था नियुक्ति: 19 रचनायां स्थित्यनुभावबन्धाद्यवस्था नियुक्ति: 20 सूत्रनिरुक्तम् // 12 //