________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 11 // कृतानां नि०- मूलकरणं पुण सुते तिविहे जोगे सुभासुभे झाणे।ससमयसुएण पगयं अज्झवसाणेण य सुहेणं // 16 // श्रुतस्कन्धः१ श्रुते पुनः श्रुतग्रन्थे मूलकरणमिदं त्रिविधे योगे मनोवाक्कायलक्षणे व्यापारे शुभाशुभे च ध्याने वर्तमानैर्ग्रन्थरचना क्रियते, प्रथममध्ययनं समयः, तत्र लोकोत्तरे शुभध्यानावस्थितैर्ग्रन्थरचना विधीयते, लोके त्वशुभध्यानाश्रितैर्ग्रन्थग्रथनं क्रियत इति, लौकिकग्रन्थस्य प्रथमोद्देशक: कर्मबन्धहेतुत्वात् कर्तुरशुभध्यायित्वमवसेयम्, इह तु सूत्रकृतस्य तावत्स्वसमयत्वेन शुभाध्यवसायेन च प्रकृतम्, यस्माद्गणधरैः नियुक्ति: 16 करण-कारण शुभध्यानावस्थितैरिदमङ्गंकृतमिति // 16 // तेषांच ग्रन्थरचनांप्रति शुभध्यायिनां कर्मद्वारेण योऽवस्थाविशेषस्तं दर्शयितुकामो नियुक्तिकृदाह निक्षेपादिः नियुक्ति: 17 नि०-ठिइअणुभावे बंधणनिकायणनिहत्तदीहहस्सेसु / संकमउदीरणाए उदए वेदे उवसमे य॥१७॥ रचनायां तत्र कर्मस्थितिं प्रति अजघन्योत्कृष्टकर्मस्थितिभिर्गणधरैः सूत्रमिदं कृतमिति, तथाऽनुभावो- विपाकस्तदपेक्षया मन्दानुभावैः, तथा बन्धमङ्गीकृत्य ज्ञानावरणीयादिप्रकृतीमन्दानुभावा बध्नद्भिः तथाऽनिकाचयद्भिरेवं निधत्तावस्थामकुर्वद्भिः तथा : दीर्घस्थितिका: कर्मप्रकृतीईसीयसीर्जनयद्भिः, तथोत्तरप्रकृतीर्बध्यमानासु संक्रामयद्भिः, तथोदयवतां कर्मणामुदीरणां विदधानैरप्रमत्तगुणस्थैस्तु सातासाताऽऽयूंष्यनुदीरयद्भिः, तथा मनुष्यगतिपञ्चेन्द्रियजात्यौदारिकशरीरतदङ्गोपाङ्गादिकर्मणामुदये वर्तमानैः, तथा वेदमङ्गीकृत्य पुंवेदे सति, तथा उवसमे त्ति सूचनात्सूत्रमिति क्षायोपशमिके भावे वर्तमानैर्गणधारिभिरिदं सूत्रकृताङ्गं हब्धमिति // 17 // साम्प्रतं स्वमनीषिकापरिहारद्वारेण करणप्रकारमभिधातुकाम आह // 11 // ®समयेन प्र०। (c) समयत्वेनेति पाठे योगसमुच्चयाय अन्यथा स्वसमयसमुच्चयः, शुभध्यानसमुच्चयोऽप्युभयत्र। 0 रिदमङ्गीकृत इति(प्र०)मङ्गीकृतमिति (मु०) / स्थित्यनुभावबन्धाद्यवस्थ