SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ वृत्तियुतम् // 427 // श्रीसूत्रकृताङ्ग क्वचित्प्रमादस्खलने सत्याचार्यादिना बह्वपि अनुशास्यमानः चोद्यमानस्तथैव-सन्मार्गानुसारिण्यर्चा- लेश्या चित्तवृत्तिर्यस्य श्रुतस्कन्ध:१ नियुक्तिस भवति तथार्चः, यश्च शिक्षा ग्राह्यमाणोऽपि तथा! भवति स पेशलो मिष्टवाक्यों विनयादिगुणसमन्वितः सूक्ष्मः सूक्ष्म त्रयोदशश्रीशीला० मध्ययनं दर्शित्वात्सूक्ष्मभाषित्वाद्वा सूक्ष्मः स एव पुरुषजातः स एव परमार्थतः पुरुषकार्यकारी नापरो योऽनायुधतपस्विजनपराजितेनापि याथातथ्यम्, श्रुतस्कन्धः१ क्रोधेन जीयते, तथाऽसावेव जात्यन्वितः सुकुलोत्पन्नः, सच्छीलान्वितो हि कुलीन इत्युच्यते, न सुकुलोत्पत्तिमात्रेण, तथा | सूत्रम् 5-8 (561-564) स एव सुष्ठु-अतिशयेन ऋजुः-संयमस्तत्करणशील:- ऋजुकरः, यदिवा उज्जुचारेत्ति यथोपदेशं यः प्रवर्तते न तु पुनर्वक्रतयाऽ सदसत्तो: चार्यादिवचनं विलोमयति-प्रतिकूलयति, यश्च तथार्च: पेशलः सूक्ष्मभाषी जात्यादिगुणान्वितः क्वचिदवक्रः समोमध्यस्थो धर्माधर्माः निन्दायां पूजायांच न रुष्यति नापितुष्यति तथा अझञ्झा- अक्रोधोऽमाया वा तां प्राप्तोऽझञ्झाप्राप्तः, यदिवाऽझञ्झाप्राप्तै:वीतरागैः समः तुल्यो भवतीति // 7 // 563 // प्रायस्तपस्विनां ज्ञानतपोऽवलेपो भवतीत्यतस्तमधिकृत्याह- यश्चापि कश्चिल्लघुप्रकृतिरल्पतयाऽऽत्मानं वसु- द्रव्यं तच्च परमार्थचिन्तायांसंयमस्तद्वन्तमात्मानं मत्वाऽहमेवात्र संयमवान् मूलोत्तरगुणानां सम्यग्विधायी नापरः कश्चिन्मत्तुल्योऽस्तीति, तथा संख्यायन्ते-परिच्छिद्यन्ते जीवादयः पदार्था येन तज्झानं संख्येत्युच्यते तद्वन्तमात्मानं मत्वा तथा सम्यक्- परमार्थमपरीक्ष्यात्मोत्कर्षवादं कुर्यात् तथा तपसा-द्वादशभेदभिन्नेनाहमेवात्र सहितो- युक्तो न मत्तुल्यो विकृष्टतपोनिष्टप्तदेहोऽस्तीत्येवं मत्वाऽऽत्मोत्कर्षाभिमानीति अन्यं जनं साधुलोकं गृहस्थलोकं वा बिम्बभूतं जलचन्द्रवत्तदर्थशून्यं कूटकार्षापणवद्वा लिङ्गमात्रधारिणं पुरुषाकृतिमात्रं वा पश्यति अवमन्यते / तदेवं यद्यन्मदस्थानं जात्यादिकं तत्तदात्मन्येवारोप्यापरमवधूतं पश्यतीति // 8 // 564 // किञ्चान्यत् (r) स्खलिते (मु०)। 0 मृष्ट० (प्र०)। 0 पुरुषार्थकारी (मु०)। 0 कारः (प्र०)। 9 झञ्झा क्रोधो माया वा तामप्राप्तो (प्र०)। X // 427 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy