SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 426 // प्रमुखोज्ज्वलं गृहीत्वा आश्रित्य व्रजन् सम्यगकोविदतया धृष्यते कण्टकश्वापदादिभिः पीड्यते, एवमसावपि केवलं श्रुतस्कन्धः१ लिङ्गधार्यनुपशान्तक्रोधः कर्कशभाष्यधिकरणोद्दीपकः, तथा अविओसिएत्ति अनुपशान्तद्वन्द्वः पापं-अनार्य कर्म-अनुष्ठानं ब्ल त्रयोदश मध्ययन यस्यासौ पापकर्मा धृष्यते चतुर्गतिके संसारे यातनास्थानगतः पौनःपुन्येन पीड्यत इति // 5 // 561 // किञ्चान्यत्- यः याथातथ्यम्, कश्चिदविदितपरमार्थो विग्रहो- युद्धंस विद्यते यस्यासौ विग्रहिको यद्यपि प्रत्युपेक्षणादिकाः क्रिया विधत्ते तथापि युद्धप्रियः सूत्रम् 5-8 (561-564) कश्चिद्भवति तथाऽन्याय्यं भाषितुं शीलमस्य सोऽन्याय्यभाषी यत्किञ्चनभाष्यस्थानभाषी गुर्वाद्यधिक्षेपकरो वा यश्चैवंभूतो सदसत्तो: नासौ समोरक्तद्विष्टतया मध्यस्थो भवति, तथा नाप्यझञ्झां प्राप्तः- अकलहप्राप्तो वान भवत्यमायाप्राप्तो वा, यदिवा अझञ्झा- धर्माधर्माः प्राप्तैः- अकलहप्राप्तः सम्यग्दृष्टिभिरसौ समो न भवति यतः अतो नैवंविधेन भाव्यम्, अपि त्वक्रोधनेनाकर्कशभाषिणा चोपशान्तयुद्धानुदीरकेण न्याय्यभाषिणाऽझञ्झाप्राप्तेन मध्यस्थेन च भाव्यमिति / एवमनन्तरोद्दिष्टदोषवर्जी सन्नुपपातकारीआचार्यनिर्देशकारी- यथोपदेशं क्रियासु प्रवृत्तः यदिवा उपायकारि त्ति सूत्रोपदेशप्रवर्तकः, तथा ही:- लज्जा संयमो मूलोत्तरगुणभेदभिन्नस्तत्र मनो यस्यासौ हीमनाः, यदिवा- अनाचारं कुर्वन्नाचार्यादिभ्यो लज्जते स एवमुच्यते, तथैकान्तेन तत्त्वेषु-जीवादिषु पदार्थेषु दृष्टिर्यस्यासावेकान्तदृष्टिः, पाठान्तरं वा एगंतसड्डित्ति एकान्तेन श्रद्धावान् मौनीन्द्रोक्तमार्गे एकान्तेन श्रद्धालुरित्यर्थः, चकारः पूर्वोक्तदोषविपर्यस्तगुणसमुच्चयार्थः, तद्यथा-ज्ञानापलिकुञ्चकोऽक्रोधीत्यादि तावद्यावद झञ्झाप्राप्त इति, स्वत एवाह- अमाइरूवे त्ति अमायिनो रूपं यस्यासावमायिरूपोऽशेषच्छद्मरहित इत्यर्थः, न गुर्वादीन् छद्मनोपचरति नाप्यन्येन केनचित्सार्धं छद्मव्यवहारं विधत्त इति // 6 // 562 // पुनरपि सद्गुणोत्कीर्तनायाह- यो हि कटुसंसारोद्विग्नः 0 प्रियः क्वचि (मु०)। Oऽन्यायं (प्र०)। 0 न्यायभा० (प्र०)। 0 तावद् झञ्झा (मु०)। // 426 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy