SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 424 / / अस्थानं- अभाजनमपात्रमसौ भवति सम्यग्ज्ञानादीनां गुणानां, किंभूतो?- बहुः- अनर्थसंपादकत्वेनासदभिनिवेशो यस्य श्रुतस्कन्धः१ स बहुनिवेशः, यदिवा-गुणानामस्थानिकः- अनाधारो बहूनां दोषाणां च निवेश:- स्थानं आश्रय इति, किंभूताः पुनरेवं त्रयोदश मध्ययन भवन्तीति दर्शयति- ये केचन दुर्गृहीतज्ञानलवावलेपिनो ज्ञाने-श्रुतज्ञाने शङ्का ज्ञानशङ्का तया मृषावादं वदेयुः, एतदुक्तं भवति याथातथ्यम्, सर्वज्ञप्रणीते आगमे शङ्कांकुर्वन्ति, अयं तत्प्रणीत एव न भवेद् अन्यथा वाऽस्यार्थः स्यात्, यदिवा ज्ञानशङ्कयाँ पाण्डित्याभि सूत्रम् 1-4 (557-558) मानेन मृषावादंवदेयुर्यथाऽहं ब्रवीमि तथैव युज्यते नान्यथेति // 3 // 559 // किञ्चान्यत्-ये केचनाविदितपरमार्थाः स्वल्पतया सदसत्तोः समुत्सेकिनोऽपरेण पृष्टाः कस्मादाचार्यात्सकाशादधीतं श्रुतं भवद्भिरिति, ते तु स्वकीयमाचार्य ज्ञानावलेपेन निलवाना धर्माधर्माः अपरं प्रसिद्ध प्रतिपादयन्ति, यदिवा मयैवैतत्स्वत उत्प्रेक्षितमित्येवं ज्ञानावलेपात् पलिउंचयंति त्ति निहवते, यदिवा-सदपि। प्रमादस्खलितमाचार्यादिनाऽऽलोचनादिके अवसरे पृष्टाः सन्तो मातृस्थानेनावर्णवादभयान्निलवते / त एवं पलिकुञ्चकानिह्नवं कुर्वाणा आदीयत इत्यादानं- ज्ञानादिकं मोक्षो वा तमर्थं वश्चयन्ति- भंशयन्त्यात्मनः, खलुरवधारणे वञ्चयन्त्येव / एवमनुष्ठायिनश्चासाधवस्ते परमार्थतस्तत्त्वचिन्तायां इह अस्मिन् जगति साधुविचारे वा साधुमानिन आत्मोत्कर्षात् सदनुष्ठानमानिनो मायान्वितास्ते एष्यन्ति यास्यन्ति अनन्तशो बहुशो घातं विनाशं संसारं वा अनवदग्रं संसारकान्तारमनुपरिवर्तयिष्यन्तीति, दोषद्वयदुष्टत्वात्तेषाम्, एकं तावत्स्वयमसाधवो द्वितीयं साधुमानिनः, उक्तं च- पावं काऊण सयं अप्पाणं सुद्धमेव वाहरइ / दुगुणं करेइ पावं बीयं बालस्स मंदत्तं ॥१॥तदेवमात्मोत्कर्षदोषाद्बोधिलाभमप्युपहत्यानन्तसंसारभाजो भवन्त्यसुमन्त इति स्थितम् // ४॥५६०॥मानविपाकमुपदाधुना क्रोधादिकषायदोषमुद्धावयितुमाह (c) ज्ञानहीत्वाविर्भावशङ्कया। (r) तुच्छतया। (c) ज्ञातं। पापं कृत्वा स्वयं आत्मानं शुद्धमेव व्याहरति / द्विगुणं करोति पापं द्वितीयं बालस्य मन्दत्वम्॥१॥
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy