SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 423 // कृदाद्याख्यातं समाधिं सम्यग्दर्शनादिकं मोक्षपद्धति अजोषयन्तः असेवन्तः सम्यगकुर्वाणा निह्नवा बोटिकाश्च स्वरुचिविरचित-श्रुतस्कन्धः 1 व्याख्याप्रकारेण निर्दोषं सर्वज्ञप्रणीतं मार्ग विध्वंसयन्ति- कुमार्ग प्ररूपयन्ति, ब्रुवते च- असौ सर्वज्ञ एव न भवति यः त्रयोदश मध्ययन क्रियमाणं कृतमित्यध्यक्षविरुद्ध प्ररूपयति, तथा यः पात्रादिपरिग्रहान्मोक्षमार्गमाविर्भावयति, एवं सर्वज्ञोक्तमश्रद्दधानाः याथातथ्यम्, श्रद्धानं कुर्वन्तोऽप्यपरे धृतिसंहननदुर्बलतया यथाऽऽरोपितं संयमभारं वोढमसमर्थाः क्वचिद्विषीदन्तोऽपरेणाचार्यादिना सूत्रम् 1-4 (557-558) वत्सलतया चोदिताः सन्तस्तं शास्तारं अनुशासितारं चोदकं पुरुष वदन्ति कर्कशं निष्ठुरं प्रतीपं चोदयन्तीति // 2 // 558 // सदसत्तोः किञ्च-विविधं- अनेकप्रकारं शोधितः- कुमार्गप्ररूपणापनयनद्वारेण निर्दोषतां नीतो विशोभितः सम्यग्दर्शनज्ञानचारित्राख्यो धर्माधर्माः मोक्षमार्गस्तमेवंभूतं मोक्षमार्ग 'ते' स्वाग्रहग्रहग्रस्ता गोष्ठामाहिलवदनु- पश्चादाचार्यप्ररूपणातः कथयन्ति- अनुकथयन्ति / ये चैवंभूता आत्मोत्कर्षात्स्वरुचिविरचितव्याख्याप्रकारव्यामोहिता आत्मभावेन स्वाभिप्रायेणाचार्यपारम्पर्येणायातमप्यर्थं व्युदस्यान्यथा व्यागृणीयुः व्याख्यानयेयुः, ते हि गम्भीराभिप्रायं सूत्रार्थ कर्मोदयात्पूर्वापरेण यथावत्परिणामयितुमसमर्थाः पण्डितमानिन उत्सूत्रं प्रतिपादयन्ति / आत्मभावव्याकरणं च महतेऽनायेति दर्शयति-'स' एवंभूतः स्वकीयाभिनिवेशाद् अस्थानिकः अनाधारो बहूनां ज्ञानादिगुणानामभाजनं भवतीति, ते चामी गुणाः- सुस्सूसइ पडिपुच्छइ सुणेइ गेण्हइ य ईहए आवि। तत्तो अपोहए वा धारेइ करेइ वा सम्म॥१॥ यदिवा गुरुशुश्रूषादिना सम्यग्ज्ञानावगमस्ततः सम्यगनुष्ठानमतः सकलकर्मक्षयलक्षणो मोक्ष इत्येवंभूतानांगुणानामनायतनमसौभवति, क्वचित्पाठः-'अट्ठाणिए होति बहूणिवसे' त्ति अस्यायमर्थः // 423 // Oआत्मनेपदमनित्यं तेन परस्मायपि सिवेः, ध्वनितं चेदं धातुपारायणे जग् दीप्तौ इत्यादौ। Oणीयुः व्याकुर्युः व्याख्या० (प्र०)।® शुश्रूषते प्रतिपृच्छति / शृणोति गृह्णाति ईहते चापि। ततोऽपोहते वा धारयति करोति वा सम्यक् / / 1 / / 0 होंति बहूणिवेस (मु०)।
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy