________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 422 // श्रुतस्कन्धः१ त्रयोदशमध्ययन याथातथ्यम्, सूत्रम् 1-4 (557-558) सदसत्तो: धर्माधर्माः अस्य चानन्तरसूत्रेण सहायं सम्बन्धः, तद्यथा- वलयाविमुक्तेत्यभिहितम्, भाववलयं रागद्वेषौ, ताभ्यां विनिर्मुक्तस्यैव याथातथ्यं भवतीत्यनेन सम्बन्धेनायातस्यास्य सूत्रस्य व्याख्या प्रतन्यते- यथातथाभावो याथातथ्यं-तत्त्वं परमार्थः, तच्च परमार्थचिन्तायां सम्यग्ज्ञानादिकम् , तदेव दर्शयति- ज्ञानप्रकार मिति प्रकारशब्द आद्यर्थे, आदिग्रहणाच्च सम्यग्दर्शनचारित्रे गृह्येते, तत्र सम्यग्दर्शनं-औपशमिकक्षायिकक्षायोपशमिकं गृह्यते, चारित्रं तु व्रतसमितिकषायाणां धारणरक्षणनिग्रहादिकं गृह्यते, एतत्सम्यग्ज्ञानादिकं पुरुषस्य जन्तोर्यज्जातं- उत्पन्नं तदहं प्रवेदयिष्यामि कथयिष्यामि, तुशब्दो विशेषणे, वितथाचारिणस्तदोषांश्चाविर्भावयिष्यामि, नानाप्रकारंवा विचित्रं पुरुषस्य स्वभावं- उच्चावचं प्रशस्ताप्रशस्तरूपंप्रवेदयिष्यामि। नानाप्रकार स्वभावंफलं च पश्चार्धेन दर्शयति- सतः सत्पुरुषस्य शोभनस्य सदनुष्ठायिनः सम्यग्दर्शनज्ञानचारित्रवतो धर्मं श्रुतचारित्राख्यं दुर्गतिगमनधरणलक्षणंवा तथा शीलं उद्युक्तविहारित्वं तथा शान्तिं निर्वृतिमशेषकर्मक्षयलक्षणां करिस्सामि पाउ त्ति प्रादुष्करिष्ये प्रकटयिष्यामि यथावद् उद्भावयिष्यामि, (ग्रन्थाग्रं.७०००) तथा असतः अशोभनस्य परतीर्थिकस्य गृहस्थस्य वा पार्श्वस्थादेर्वा, चशब्दसमुच्चितमधर्म- पापं तथा अशीलं कुत्सितशीलमशान्तिंच- अनिर्वाणरूपां संसृतिं प्रादुर्भावयिष्यामीति / अत्र च सतो धर्मं शीलं शान्तिं च प्रादुष्करिष्यामि, असतश्चाधर्ममशीलमशान्तिं चेत्येवं पदघटना योजनीया, अनुपात्तस्य (च) चशब्देनाक्षेपो द्रष्टव्य इति // 1 // 557 // जन्तोर्गुणदोषरूपं नानाप्रकारं स्वभावं प्रवेदयिष्यामीत्युक्तं तद्दर्शयितुकाम आहअहोरात्रं अहर्निशं सम्यगुत्थिताः समुत्थिता सदनुष्ठानवन्तस्तेभ्यः श्रुतधरेभ्यः, तथा तथागतेभ्यो वातीर्थकृद्भ्यो धर्मं श्रुतचारित्राख्यं प्रतिलभ्य- संसारनिःसरणोपायं धर्ममवाप्यापि कर्मोदयान्मन्दभाग्यतया जमालिप्रभृतय इहात्मोत्कर्षात्तीर्थ© इवा प्र०। // 422 //