________________ श्रीसूत्रकृता नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 420 // 122-126 येन प्रकारेण यया पद्धत्त्या सूत्रं व्यवस्थितं तथा तेनैव प्रकारेण अर्थोव्याख्येयोऽनुष्ठेयश्च, एतद्दर्शयति-चरणं आचरणमनुष्ठातव्यम्, श्रुतस्कन्धः१ यदिवा सिद्धान्तसूत्रस्य चारित्रमेवाचरणं अतो यथा सूत्रं तथा चारित्रमेतदेव चानुष्ठेयमेतच्च याथातथ्यमिति ज्ञातव्यम् / पूर्वार्धस्यैव त्रयोदश मध्ययन भावार्थं गाथापश्चार्धेन दर्शयितुमाह- यद्वस्तुजातं प्रकृतं प्रस्तुतं यमर्थमधिकृत्य सूत्रमकारि तस्मिन्नर्थे सति विद्यमाने यथाव- याथातथ्यम्, व्याख्यायमाने संसारोत्तरणकारणत्वेन प्रशस्यमाने वायाथातथ्यमिति भवति, विवक्षिते त्वर्थे असति अविद्यमाने संसारकारण नियुक्तिः त्वेन वा जुगुप्सायां सत्यां सम्यगननुष्ठीयमाने वा याथातथ्यं न भवति, इदमुक्तं भवति- यदि यथा सूत्रं येन प्रक्रमेण व्यवस्थित तथानिक्षेपादिः तथैवार्थो यदि भवति व्याख्यायतेऽनुष्ठीयतेच संसारनिस्तरणसमर्थश्च भवति ततो याथातथ्यमिति भवति, असति त्वर्थेऽक्रियमाणे च संसारकारणत्वेन जुगुप्सिते वा न भवति याथातथ्यमिति गाथातात्पर्यार्थः। एतदेव दृष्टान्तगर्भ दर्शयितुमाहआचार्याः-सुधर्मस्वामिजम्बूनामप्रभवार्यरक्षिताधास्तेषां प्रणालिका- पारम्पर्यं तेनागतं यद्व्याख्यानं-सूत्राभिप्रायः, तद्यथाव्यवहारनयाभिप्रायेण क्रियमाणमपि कृतं भवति, यस्तु कुतर्कदध्मातमानसो मिथ्यात्वोपहतदृष्टितया छेकबुद्ध्या / निपुणबुद्ध्या कुशाग्रीयशेमुषीकोऽहमितिकृत्वा कोपयति दूषयति- अन्यथा तमर्थ सर्वज्ञप्रणीतमपिव्याचष्टे- कृतं कृतमित्येवं ब्रूयात्, वक्ति च-न हि मृत्पिण्डक्रियाकाल एव घटो निष्पद्यते, कर्मगुणव्यपदेशानामनुपलब्धेः, स एवं छेकवादी निपुणोऽहमित्येवंवादी पण्डिताभिमानी जमालिनाशं जमालिनिह्नववत् सर्वज्ञमतविकोपको विनवयति अरहट्टघटीयन्त्रन्यायेन संसारचक्रवाले बंभ्रमिष्यतीति, न चासौ जानाति वराको यथा अयं लोको घटार्थाः क्रिया मृत्खननाद्या घट एवोपचरति, (तत्त्वतः) तासां च क्रियाणां क्रियाकालनिष्ठाकालयोरेककालत्वात् क्रियमाणमेव कृतं भवति, दृश्यते चायं व्यवहारो 0रोत्तारण (मु०)। 0 प्रकारेण (मु०)। // 420