________________ श्रीसूत्रकृताङ्गं तथ्यमतस्तदेव निरूप्यत इति / तत्र तथाभावस्तथ्यं- यथावस्थितवस्तुता, तन्नामादि चतुर्धा, तत्र नामस्थापने सुगमे, द्रव्यतथ्यं श्रुतस्कन्ध:१ नियुक्तिगाथापश्चार्धेन प्रतिपादयति, तत्र द्रव्यतथ्यं पुनर्यो यस्य सचित्तादेः स्वभावो द्रव्यप्राधान्याद्यद्यस्य स्वरूपम्, तद्यथा त्रयोदशश्रीशीला मध्ययन वृत्तियुतम् उपयोगलक्षणो जीवः कठिनलक्षणा पृथिवी द्रवलक्षणा आप इत्यादि, मनुष्यादेर्वा यो यस्य मार्दवादिः स्वभावोऽचित्त याथातथ्यम्, श्रुतस्कन्धः१ द्रव्याणांच गोशीर्षचन्दनकम्बलरत्नादीनां द्रव्याणां स्वभावः, तद्यथा- उण्हे करेइ सीयं सीए उण्हत्तणं पुण करेइ। कंबलरयणादीण नियुक्तिः // 419 // 122-126 एस सहावो मुणेयव्वो॥१॥ भावतथ्यमधिकृत्याह- भावतथ्यं पुनः नियमतः अवश्यंभावतया षड्डिधे औदयिकादिके भावे तथानिक्षेपादिः ज्ञातव्यम्, तत्र कर्मणामुदयेन निर्वृत्त औदयिकः- कर्मोदयापादितो गत्याद्यनुभवलक्षणः, तथा कर्मोपशमेन निवृत्त औपशमिकः- कर्मानुदयलक्षण इत्यर्थः, तथा क्षयाज्जातः क्षायिकः- अप्रतिपातिज्ञानदर्शनचारित्रलक्षणः, तथा क्षयादुपशमाच्च जातः क्षायोपशमिको- देशोदयोपशमलक्षणः, परिणामेन निवृत्तः पारिणामिको- जीवाजीवभव्यत्वादिलक्षणः, पञ्चानामपि भावानां द्विकादिसंयोगान्निष्पन्नः सान्निपातिक इति। यदिवा- अध्यात्मनि आन्तरं चतुर्धा भावतथ्यं द्रष्टव्यम्, तद्यथा- ज्ञानदर्शनचारित्रविनयतथ्यमिति, तत्र ज्ञानतथ्यं मत्यादिकेन ज्ञानपञ्चकेन यथास्वमवितथो विषयोपलम्भः दर्शनतथ्यं / शङ्काद्यतिचाररहितं जीवादितत्त्वश्रद्धानं चारित्रतयं तु तपसि द्वादशविधे संयमे सप्तदशविधे सम्यगनुष्ठानम्, विनयतथ्यं द्विचत्वारिंशद्भेदभिन्ने विनये ज्ञानदर्शनचारित्रतपऔपचारिकरूपे यथायोगमनुष्ठानम्, ज्ञानादीनां तु वितथाऽऽसेवनेनातथ्य मिति / अत्रच भावतथ्येनाधिकारः, यदिवा भावतथ्यं प्रशस्ताप्रशस्तभेदाद्विधा, तदिह प्रशस्तेनाधिकार इति दर्शयितुमाह-8 B उष्णे कुर्वन्ति शीतं शीते उष्णत्वं पुनः कुर्वन्ति / कम्बलरत्नादीनां एव स्वभावो ज्ञातव्यः॥ भावलक्षणः (मु०) 0 ज्ञानाद्यनुगतत्वान्न वीर्यादः पृथगुपादानम्। RO ज्ञानेष्टौ दर्शने चारित्रे च तपसि विनयस्य विधेयत्वादेकादश औपचारिके सप्तभेदरूपे यद्वा क्रमेण पञ्चैकसप्तदशद्वादशसप्तभेदरूपे।७ कारं दर्शयितुमाह-'यथा' येन (मु०) // 412