________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ | // 418 // श्रुतस्कन्धः१ त्रयोदशमध्ययन याथातथ्यम्, नियुक्तिः 122-126 तथानिक्षेपादिः ॥अथ त्रयोदशमध्ययनं याथातथ्याख्यम्॥ समाप्तं समवसरणाख्यं द्वादशमध्ययनम्, तदनन्तरं त्रयोदशमारभ्यते, अस्य चायमभिसम्बन्धः- इहानन्तराध्ययने परवादिमतानि निरूपितानि तन्निराकरणं चाकारि, तच्च याथातथ्येन भवति, तदिह प्रतिपाद्यते इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्राप्युपक्रमद्वारान्तर्गतोऽर्थाधिकारोऽयम्, तद्यथा-शिष्यगुणदीपना, अन्यच्चअनन्तराध्ययनेषु धर्मसमाधिमार्गसमवसरणाख्येषु यदवितथं याथातथ्येन व्यवस्थितं यच्च विपरीतं वितथं तदपिलेशतोऽत्र प्रतिपादयिष्यत इति / नामनिष्पन्ने तु निक्षेपे याथातथ्यमिति नाम, तदधिकृत्य नियुक्तिकृदाह नि०- णामतहं ठवणतहं दव्वतहं चेव होइ भावतहं / दव्वतहं पुण जो जस्स सभावो होति दव्वस्स // 122 / / नि०-भावतहं पुण नियमाणायव्वं छव्विहंमि भावंमि / अहवाऽवि नाणदंसणचरित्तविणएण अज्झप्पे // 123 // नि०-जह सुत्तं तह अत्थो चरणं ति जहा तहा यणायव्वं / संतंमि (य) पसंसाए असती पगयं दुगंछाए // 124 // नि०- आयरियपरंपरएण आगयं जो उछेयबुद्धीए। कोवेइ छेयवाई जमालिनासंसणासिहिति // 125 // नि०-ण करेति दुक्खमोक्खं उज्जममाणोऽवि संजमतवेसुं। तम्हा अत्तुक्करिसो वजेअव्वोजतिजणेणं // 126 // अस्याध्ययनस्य याथातथ्यमिति नाम, तच्च यथातथाशब्दस्य भावप्रत्ययान्तस्य भवति, तत्र यथाशब्दोल्लङ्गनेन तथाशब्दस्य निक्षेपं कर्तुर्नियुक्तिकारस्यायमभिप्रायः- इह यथाशब्दोऽयमनुवादे वर्तते, तथाशब्दश्च विधेयार्थे, तद्यथा- यथैवेदं व्यवस्थितं तथैवेदं भवता विधेयमिति, अनुवादविधेययोश्च विधेयांश एव प्रधानभावमनुभवतीति, यदिवा-याथातथ्यमिति ©चरणं चारो तहत्ति णायत्वं (मु०)।