________________ द्वादश मध्ययन श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 416 // समवसरणम्, स्यात्, अण्डजोद्भिज्जाङ्करादीनामप्यन्यत एवोत्पत्तिर्भवन्ती समुपलक्ष्यते, तदेवं व्यवस्थिते प्रधानमहदहङ्कारादिकोत्पत्तिर्या श्रुतस्कन्धः१ सांख्यैः स्वप्रक्रिययाऽऽभ्युपगम्यते तत्तैर्नियुक्तिकमेव स्वदर्शनानुरागेणाभ्युपगम्यत इति / आत्मनश्चाकर्तृत्वाभ्युपगमे कृतनाशोऽकृताभ्यागमश्च स्यात् बन्धमोक्षाभावश्च, निर्गुणत्वे च ज्ञानशून्यतापत्तिरित्यतो बालप्रलापमात्रम्, प्रकृतेश्चाचेतनाया आत्मार्थं का प्रवृत्तियुक्तिविकलेति / अथ बौद्धमतं निरूप्यते- तत्र हि पदार्था द्वादशायतनानि, तद्यथा- चक्षुरादीनि पञ्च रूपादयश्च सूत्रम् 21-22 (555-556) विषयाः पञ्च शब्दायतनं धर्मायतनं च, धर्माः- सुखादयो द्वादशायतनपरिच्छेदके प्रत्यक्षानुमाने द्वे एव प्रमाणे, तत्र नैयायिक चक्षुरादी(दिद्रव्ये)न्द्रियाण्यजीवग्रहणेनैवोपात्तानि, भावेन्द्रियाणि तु जीवग्रहणेनेति, रूपादयश्च विषया अजीवोपादानेनोपात्ता तत्वनिरासः न पृथगुपादातव्याः, शब्दायतनं तु पौगलिकत्वाच्छब्दस्याजीवग्रहणेन गृहीतम्, न च प्रतिव्यक्ति पृथक्पदार्थता युक्तिसंगतेति, धर्मात्मकं सुखंदुःखंच यद्यसा(तासातोदयरूपंततोजीवगुणत्वान्जीवेऽन्तर्भावः, अथ तत्कारणं कर्म ततः पौगलिकत्वादजीव इति। प्रत्यक्षं च तैर्निर्विकल्पकमिष्यते, तच्चानिश्चयात्मकतया प्रवृत्तिनिवृत्त्योरनङ्गमित्यप्रमाणमेव, तदप्रामाण्ये तत्पूर्वकत्वादनुमानमपीति, शेषस्त्वाक्षेपपरिहारोऽन्यत्र सुविचारित इति नेह प्रतन्यत इत्यनया दिशा मीमांसकलोकायतमताभिहिततत्त्वनिराकारणं स्वबुद्ध्या विधेयम्, तयोरत्यन्तलोकविरुद्धपदार्थानां श्रयणान्न साक्षादुपन्यासः कृत इति / तस्मात्पारिशेष्यसिद्धा अर्हदुक्ता नव सप्त वा पदार्थाः सत्याः तत्परिज्ञानं च क्रियावादे हेतुः नापरपदार्थपरिज्ञानमिति // 21 // 555 // साम्प्रतमध्ययनार्थमुपसंजिहीर्षुः सम्यग्वादपरिज्ञानफलमादर्शयन्नाह- शब्देषु वेणुवीणादिषु श्रुतिसुखदेषुरूपेषु च नयनानन्दकारिषु आसङ्गमकुर्वन् गाय॑मकुर्वाणः, अनेन रागो गृहीतः, तथा गन्धेषु कुथितकलेवरादिषु रसेषु च अन्तप्रान्ताशनादिषु ॐ कृतागमश्च (मु०)। 0 मानसमिति शब्दान्तरम्, तस्य शब्दमयविचारात्मकत्वात्।