________________ श्रुतस्कन्ध:१ द्वादश श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः 1 // 414 // मध्ययन समवसरणम्, सूत्रम् 21-22 (555-556) नैयायिक तत्वनिरास: द्रव्यादिष्वपि स्वत एव सत्प्रत्ययो भविष्यतीति किमपरसत्तयाऽजागलस्तनकल्पया किल्पितयाँ?, किञ्च- द्रव्यादीनां किं सतां सत्तया सत्प्रत्यय उतासतां?, तत् यदि सतां स्वत एव सत्प्रत्ययो भविष्यति किं तया?, असत्पक्षे तु शशविषाणादिष्वपि सत्तायोगात्सत्प्रत्ययः स्यादिति, तथा चोक्तं-स्वतोऽर्थाः सन्तु सत्तावत्सत्तया किं सदात्मनाम् / असदात्मसु नैषा स्यात्सर्वथातिप्रसङ्गतः॥१॥इत्यादि। एतदेव दूषणमपरसामान्येऽप्यायोज्यम्, तुल्ययोगक्षेमत्वात् / किञ्च-अस्माभिरपिसामान्यविशेषरूपत्वाद्वस्तुनः कथञ्चित्तदिष्यत एवेति, तस्य च कथञ्चित्तदव्यतिरेकाद् द्रव्यग्रहणेनैव ग्रहणमिति / अथ विशेषाः, ते चात्यन्तव्यावृत्तिबुद्धिहेतुत्वेन परैराश्रीयन्ते, तत्रेदं चिन्त्यते या तेषु विशेषबुद्धिः सा नापरविशेषहेतुकाऽऽश्रयितव्या, अनवस्थाभयात्, स्वतः समाश्रयणे च तद्वद् द्रव्यादिष्वपि विशेषबुद्धिः स्यात्किं द्रव्यादिव्यतिरिक्तैर्विशेषैरिति?, द्रव्याव्यतिरिक्तास्तु विशेषा अस्माभिरप्याश्रीयन्ते, सर्वस्य सामान्यविशेषात्मकत्वादिति / एतत्तु प्रक्रियामात्रम्, तद्यथा-नित्यद्रव्यवृत्तयोऽन्त्या विशेषाः, नित्यद्रव्याणि च चतुर्विधाः परमाणवो मुक्तात्मानो मुक्तमनांसि च, इति, नियुक्तिकत्वादपकर्णयितव्यमिति / समवायस्तु- अयुतसिद्धानामाधाराधेयभूतानां य इह प्रत्ययहेतुः स समवाय इत्युच्यते, असावपि नित्य एकश्चाश्रीयते, तस्य च नित्यत्वात्समवायिनोऽपि नित्या आपोरन्, तदनित्यत्वे च तस्याप्यनित्यत्वापत्तिः, तदाधाररूपत्वात्तस्य, तदेकत्वाच्च सर्वेषां समवायिनामेकत्वापत्तिः, तस्य चानेकत्वमिति / किञ्च- अयं समवायः सम्बन्धः, तस्य च द्विष्ठत्वाद् युतसिद्धत्वमेव दण्डदण्डिनोरिव, वीरणानांच कटोत्पत्तौ तद्रूपतया विनाशः कटरूपतयोत्पत्तिरन्वयिरूपतयाँ व्यवस्थानमिति दुग्धदध्नोरि ®द्रव्यादिभिन्नया। 0 विकल्पि० (मु०)10 वक्ष्यमाणं। एतन्निरूपणं। 0 अपरविशेषभावयोर्दोषात्। 0 नित्यश्चैकश्चाश्री० (मु०)। 7 युग्मयोभिन्नत्वेन। ©रन्वयरूप (मु०)। जमानामा // 414 //