________________ मध्ययन श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 413 // वेगाख्यः संस्कारो मूर्तद्रव्येष्वेव आकाशगुणः शब्द इति / तत्र सङ्ख्यादयः सामान्यगुणा रूपादिवव्यस्वभा(वाभा)वत्वेन श्रुतस्कन्धः१ परोपाधिकत्वाद्गुणा एव न भवन्ति, अथापिस्युस्तथापिन गुणानांपृथक्त्वव्यवस्था, तत्पृथग्भावे द्रव्यस्वरूपहाने: गुणपर्यायवद् / द्वादशद्रव्य (तत्त्वा० अ० 5 सू०) मितिकृत्वा अतो नान्तरीयकतया द्रव्यग्रहणेनैव ग्रहणं न्याय्यमिति न पृथग्भावः / किञ्च- तस्य समवसरणम्, भावस्तत्त्वमित्युच्यते, भावप्रत्ययश्च यस्य गुणस्य हि भावाद् द्रव्ये शब्दनिवेशस्तदभिधाने त्वतला' वित्यनेन भवति, तत्र सूत्रम् 21-22 (555-556) घटो रक्त उदकस्याहारको जलवान् सवैरेव घट उच्यते, अत्र च घटस्य भावो घटत्वं रक्तस्य भावो रक्तत्वं आहारकस्य भाव नैयायिक आहारकत्वं जलवतो भावो जलवत्त्वमित्यत्र घटसामान्यरक्तगुणक्रियाद्रव्यसम्बन्धरूपाणां गुणानां सद्भावात् द्रव्ये तत्वनिरासः पृथुबुध्नाकार उदकाद्याहरणक्षमे कुटकाख्ये शब्दस्य घटादेरभिनिवेशस्तत्र त्वतलौ, इह च रक्ताख्यः को गुणो? यत् सद्भावात्, कतरच्च तद् द्रव्यं यत्र शब्दनिवेशो येन भावप्रत्यय: स्यादिति? / किमिदानीं रक्तस्य भावो रक्तत्वमिति न भवितव्यं?, भवितव्यमुपचारेण, तथाहि-रक्त इत्येतद्दव्यत्वेनोपचर्य तस्य सामान्यं भाव इति रक्तत्वमिति, न चोपचारस्तत्त्वचिन्तायामुपयुज्यते, शब्दसिद्धावेव तस्य कृतार्थत्वादिति / शब्दश्चाकाशस्य गुण एव न भवति, तस्य पौगलिकत्वाद्, आकाशस्य चामूर्तत्वादिति / शेषं तु प्रक्रियामानं न साधनदूषणयोरङ्गम् / क्रियाऽपि द्रव्यसमवायिनी गुणवत्पृथगाश्रयितुं न युक्तेति / अथ सामान्यम्, तविधा- परमपरं च, तत्र परं महासत्ताख्यं द्रव्यादिपदार्थव्यापि, तथाचोक्तं-सदिति यतो द्रव्यगुणकर्मसु सा सत्ता अपरं च द्रव्यत्वगुणत्वकर्मत्वात्मकम्, तत्र न तावन्महासत्तायाः पृथक्पदार्थता युज्यते, यतस्तस्यां यः सदिति प्रत्ययःस॥ 413 // किमपरसत्तानिबन्धन उत स्वत एव?, तत् यद्यपरसत्तानिबन्धनस्तत्राप्ययमेव विकल्पोऽतोऽनवस्था, अथ स्वत एव ततस्तद्वद् / तत्पृथक्त्वभावे (मु०)। 0 मानस्वभावो भावः। 0 गुणस्य पदार्थस्वरूपत्वान्न पृथक्पदार्थता।