SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः१ द्वादश श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 412 // मध्ययनं समवसरणम्, सूत्रम् 21-22 (555-556 नैयायिक तत्वनिरासः भिधीयते नैयायिकैस्तत्प्रलापमात्रमिति, तच्च प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोध इत्यादिकम्, एतच्च विचार्यमाणं न निग्रहस्थानं भवितुमर्हति, भवदपिच पुरुषस्यैवापराधं कर्तुमलम्, न त्वेतत्तत्त्वं भवितुमर्हति, वक्तृगुणदोषौ हि परार्थेऽनुमानेऽ . धिक्रियेते न तु तत्त्वमिति, तदेवंन नैयायिकोक्तं तत्त्वंतत्त्वेनाश्रयितुंयुज्यते, तस्योक्तनीत्या सदोषत्वादिति ॥नापि वैशेषिकोक्तं तत्त्वमिति, तथाहि- द्रव्यगुणकर्मसामान्यविशेषसमवायास्तत्त्वमिति, तत्र पृथिव्यप्तेजोवायुराकाशं कालो दिगात्मा मन इति नव द्रव्याणि, तदत्र पृथिव्यप्तेजोवायूनां पृथग्द्रव्यत्वमनुपपन्नम्, तथाहि-त एव परमाणवः प्रयोगविस्रसाभ्यां पृथिव्यादित्वेन परिणमन्तोऽपिन स्वकीयं द्रव्यत्वं त्यजन्ति, न चावस्थाभेदेन द्रव्यभेदो युक्तः, अतिप्रसङ्गादिति। आकाशकालयोश्चास्माभिरपि द्रव्यत्वमभ्युपगतमेव, दिशस्त्वाकाशावयवभूताया अनुपपन्नं पृथग्द्रव्यत्वमतिप्रसङ्गदोषादेव, आत्मनश्च शरीरमात्रव्यापिन उपयोगलक्षणस्याभ्युपगतमेव द्रव्यत्वमिति, मनसश्च पुद्गलविशेषतया पुद्गलद्रव्येऽन्तर्भाव इति परमाणुवत्, भावमनसश्च जीवगुणत्वादात्मन्यन्तर्भाव इति / यदपि तैरभिधीयते, यथा पृथिवीत्वयोगात्पृथिवीति, तदपि स्वप्रक्रियामात्रमेव, यतो न हिपृथिव्याः पृथग्भूतं पृथिवीत्वमपि येन तद्योगात्पृथिवी भवेद्, अपितु सर्वमपि यदस्ति तत्सामान्यविशेषात्मकंनरसिंहाकारमुभयस्वभावमिति, तथा चोक्तं- नान्वयः स हि भेदत्वान्न भेदोऽन्वयवृत्तितः। मृद्रेदद्वयसंसर्गवृत्तिजा (र्जा) त्यन्तरं घटः॥१॥तथान नरः सिंहरूपत्वान्न सिंहो नररूपतः / शब्दविज्ञानकार्याणां, भेदाज्जात्यन्तरं हि सः॥१॥इत्यादि / अथ रूपरसगन्धस्पर्शा रूपिद्रव्यवृत्तेर्विशेषगुणाः, तथा सङ्ख्यापरिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे इत्येते सामान्यगुणाः सर्वद्रव्यवृत्तित्वात्, तथा बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्कारा आत्मगुणाः, गुरुत्वं पृथिव्युदकयोवत्वं पृथिव्युदकाग्निषु स्नेहोऽम्भस्येव ®स्वशरीर० (मु०)। ॐ तत्पृथक्त्वभावे (मु०)। // 412 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy