________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 409 // नैयायिक रित्यात्मेच्छा, सा चात्मगुण एव, आत्माऽभिप्रायतया ज्ञानविशेषत्वाद्, आत्मानं दूषयतीति दोषः, तद्यथा-अस्यात्मनो नेदं श्रुतस्कन्धः 1 शरीरमपूर्वम्, अनादित्वादस्य, नाप्यनुत्तरम्, अनन्तत्वात्सन्ततेरिति, (शरीरेऽपूर्वतया सान्ततया वा) योऽयमात्मनोऽध्यवसाय: द्वादश मध्ययनं स दोषो, रागद्वेषमोहादिको वा दोषः, अयमपि दोषो जीवाभिप्रायतया तदन्तर्भावीति न पृथग्वाच्यः। प्रेत्यभावः समवसरणम्, परलोकसद्भावोऽयमपिससाधनो जीवाजीवग्रहणेनोपात्तः,फलमपिसुखदुःखोपभोगात्मकम्, तदपिजीवगुण एवान्तर्भवतीति सूत्रम् 21-22 न पृथगुपदेष्टव्यमिति, दुःखमित्येतदपि विविधबाधनयोगरूपमिति न फलादतिरिच्यते, जन्ममरणप्रबन्धोच्छेदरूपतया (555-556) सर्वदुःखप्रहाणलक्षणोमोक्षः,सचास्माभिरुपात्त एवेति / किमित्यनवधारणात्मकः प्रत्ययः संशयः, असावपि निर्णयज्ञान- तत्वनिरास: वदात्मगुण एवेति, येन प्रयुक्तः प्रवर्तते तत्प्रयोजनम्, तदपीच्छाविशेषत्वादात्मगुण एव, अविप्रतिपत्तिविषयापन्नोऽर्थो दृष्टान्तः, असावपिजीवाजीवयोरन्यतरः, न चैतावताऽस्य पृथक्पदार्थता युक्ता, अतिप्रसङ्गाद्, अवयवग्रहणेन च तस्योत्तरत्र ग्रहणादिति / सिद्धान्तश्चतुर्विधः, तद्यथा-सर्वतन्त्राविरुद्धस्तन्त्रेऽधिकृतोऽर्थः सर्वतन्त्रसिद्धान्तः१, यथा स्पर्शनादीनीन्द्रियाणि स्पर्शादय इन्द्रियार्थाः प्रमाणैः प्रमेयस्य ग्रहणमिति 1, समानतन्त्रसिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तो यथा साङ्ख्यानां नासत आत्मलाभो न च सतः सर्वथा विनाश इति, तथा चोक्तं- नासतो जायते भावो, नाभावो जायते सतः इति 2, यत्सिद्धावन्यस्यार्थस्यानुषङ्गेण सिद्धिः सोऽधिकरणसिद्धान्तः 3, यथेन्द्रियव्यतिरिक्तो ज्ञाताऽऽत्माऽस्ति दर्शनस्पर्शनाभ्यामेकार्थग्रहणादिति, तत्रानुषङ्गिणोऽर्था 1 इन्द्रियनानात्वं 2 नियतविषयाणीन्द्रियाणि 3 स्वविषयग्रहणलिङ्गानि च 4 ज्ञातुर्ज्ञानसाधनानि 5 स्पर्शादिगुणव्यतिरिक्तं द्रव्यं 6 गुणाधिकरण 7 मनियतविषयाश्चेतना:८ इति, पूर्वार्थसिद्धावेतेऽर्थाः सिध्यन्ति, नैतैर्विना पूर्वार्थः संभवतीति 3, अपरीक्षितार्थाभ्युपगमात्तद्विशेषपरीक्षणमभ्युपगमसिद्धान्तः 4, तद्यथा, किंशब्द इति विचारे // 409 //