________________ द्वादश श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 410 // कश्चिदाह-अस्तु द्रव्यं शब्दः, सतु किं नित्योऽथानित्यः?, इत्येवं विचारः, स चायं चतुर्विधोऽपि सिद्धान्तो न ज्ञानविशेषादति- श्रुतस्कन्धः 1 | रिच्यते, ज्ञानविशेषस्यात्मगुणत्वाद्गुणस्य च गुणिग्रहणेन ग्रहणाद्न पृथगुपादानमिति 4 / अथावयवाः-प्रतिज्ञाहेतूदाहरणो मध्ययन पनयनिगमनानि, तत्र साध्यनिर्देशः प्रतिज्ञा, यथा नित्यः शब्दोऽनित्यो वेति, हिनोति- गमयति प्रतिज्ञातमर्थमिति हेतुः, समवसरणम्, तद्यथा- उत्पत्तिधर्मकत्वात्, साध्यसाधर्म्यवैधात् तद्धर्मभावी दृष्टान्तः उदाहरणम् , यथा घट इति, वैधोदाहरणं यदनित्यं / सूत्रम् 21-22 (555-556) न भवति तदुत्पत्तिमदपि न भवति यथाऽऽकाशमिति, तथा न तथेति वा पक्षधर्मोपसंहार उपनयः, तद्यथा-अनित्यः शब्दः नैयायिक कृतकत्वाद् घटवत्तथा चायम्, अनित्यत्वाभावे कृतकत्वमपि न भवत्याकाशवत् न तथाऽयमिति, प्रतिज्ञाहेत्वोः पुनर्वचनं तत्वनिरास: निगमनम्, तस्मादनित्य इति, ते चामी पञ्चाप्यवयवा यदि शब्दमानं ततः शब्दस्य पौगलिकत्वात्पुद्गलानां चाजीवग्रहणेन / ग्रहणान्न पृथगुपादानंन्याय्यम्, अथ तज्जं ज्ञानं ततो जीवगुणत्वात् जीवग्रहणेनैवोपादानमिति, ज्ञानविशेषपदार्थताऽभ्युपगमे च पदार्थबहुत्वं स्याद्, अनेकप्रकारत्वाज्ज्ञानविशेषाणामिति / संशयादूर्ध्वं भवितव्यताप्रत्ययः सदर्थपर्यालोचनात्मकस्तर्कः, यथा भवितव्यमत्र स्थाणुना पुरुषेण वेति, अयमपिज्ञानविशेष एव, न च ज्ञानविशेषाणां ज्ञातुरभिन्नानां पृथक् पदार्थपरिकल्पनं समनुजानते विद्वांसः। संशयतर्काभ्यामुत्तरकालभावी निश्चयात्मकः प्रत्ययो निर्णयः, अयमपि प्राग्वन्न ज्ञानादतिरिच्यते, किञ्च-अस्य निश्चयात्मकतया प्रत्यक्षादिप्रमाणान्तर्भावान्न पृथग निर्देशोन्याय्य इति / तिम्रः कथा:- वादो जल्पो वितण्डा चेति, तत्र प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहो वादः, स च तत्त्वज्ञानार्थं शिष्याचार्ययोर्भवति, स एव विजिगीषुणा सार्धं छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पः, स एव प्रतिपक्षस्थापनाहीनो O०वैधर्म्यभावे दृष्टान्तः (मु०)। (c) शब्दगडुमात्रं (प्र०)। // 41