SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 408 // तत्र कार्यकारणादिव्यतिरेकेणापि गम्यगमकभावो दृष्टः, तद्यथा- भविष्यति शकटोदयः, कृत्तिकादर्शनादिति, तदुक्तं श्रुतस्कन्धः 1 अन्यथाऽनुपपन्नत्वं, यत्र तत्र त्रयेण किम्? / नान्यथाऽनुपपन्नत्वं, यत्र तत्र त्रयेण किम्? // 1 // अपिच- प्रत्यक्षस्याप्रामाण्ये द्वादश मध्ययनं तत्पूर्वकस्यानुमानस्याप्रामाण्यमिति / प्रसिद्धसाधर्म्यात्साध्यसाधनमुपमानम्, यथा गौर्गवयस्तथा, अत्र च सज्ञासज्ञि समवसरणम्, सम्बन्धप्रतिपत्तिरुपमानार्थः, अत्रापि सिद्धायामन्यथाऽनुपपत्तावनुमानलक्षणत्वेन तत्रैवान्तर्भावात्पृथक्प्रमाणत्वमनुपपन्नमेव, सूत्रम् 21-22 (555-556) अथ नास्त्यन्यथानुपपत्तिस्ततो व्यभिचारादप्रमाणतोपमानस्य ।शाब्दमपिन सर्वं प्रमाणम्, किंतर्हि?, आप्तप्रणीतस्यैवागमस्य नैयायिक प्रामाण्यम्, न चाहव्यतिरेकेणापरस्याप्तता युक्तियुक्तेति, एतच्चान्यत्र निर्लोठितमिति / किञ्च- सर्वमप्येतत्प्रमाणमात्मनोल तत्वनिरास: ज्ञानं ज्ञानं चात्मनो गुणः (गुणश्च) पृथक्पदार्थतयाऽभ्युपगन्तुं न युक्तो, रूपरसादीनामपि पृथक्पदार्थताऽऽपत्तेः, अथ प्रमेयग्रहणेनेन्द्रियार्थतया तेऽप्याश्रिताः, सत्यमाश्रिताः, न तु युक्तियुक्ताः, तथाहि- द्रव्यव्यतिरेकेण तेषामभावात् तद्हणे चल तेषामपि ग्रहणं सिद्धमेवेति न युक्तं पृथगुपादानम् / प्रमेयं त्वात्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गाः, तत्रात्मा सर्वस्य द्रष्टोपभोक्ता चे(स चे)च्छाद्वेषप्रयत्नसुखदुःखज्ञानानुमेयः, स च जीवपदार्थतया गृहीत एवास्माभिरिति, शरीरं तु तस्य भोगायतनम् , भोगायतनानीन्द्रियाणि, भोक्तव्या इन्द्रियार्थाः, एतदपि शरीरादिकं जीवाजीवग्रहणेनोक्तमस्माभिरिति / उपयोगो बुद्धिरित्येतच्च ज्ञानविशेषः, स च जीवगुणतया जीवोपादानतयो (नेनो) पात्त एव / सर्वविषयमन्तःकरणं युगपज्ज्ञानानुत्पत्तिलिङ्गं मनः, तदपि द्रव्यमनः पौगलिकमजीवग्रहणेन गृहीतम्, भावमनस्त्वात्मगुणत्वाज्जीवग्रहणेनेति ।आत्मनः सुखदुःखसंवेदनानां निर्वर्तनकारणं प्रवृत्तिः,सापि पृथक्पदार्थतया नाभ्युपगन्तुंयुक्ता, तथाहि-प्रवृत्ति (r) नास्त्यनुपपत्ति (मु०)।
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy