SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 407 // श्रुतस्कन्धः१ द्वादशमध्ययनं समवसरणम्, सूत्रम् 21-22 नैयायिक तत्वनिरास: पादानम्, तत्फलभूतस्य च मोक्षस्योपादानं द्रष्टव्यमिति, तदेवमेतावन्त एव पदार्थास्तदभ्युपगमेन चास्तीत्यादिकः क्रियावादोऽभ्युपगतोभवतीति, यश्चैतान् पदार्थान् ‘जानाति' अभ्युपगच्छति स परमार्थतः क्रियावादंजानाति / ननु चापरदर्शनोक्तपदार्थपरिज्ञानेन सम्यग्वादित्वं कस्मान्नाभ्युपगम्यते?, तदुक्तपदार्थानामेवाघटमानत्वात्, तथाहि-नैयायिकदर्शनेन तावत्प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानीत्येते षोडश पदार्था अभिहिताः, तत्र हेयोपादेय-(निवृत्ति) प्रवृत्तिरूपतया येन पदार्थपरिच्छित्तिः क्रियते तत्प्रमीयतेऽनेनेति प्रमाणम्, तच्च प्रत्यक्षानुमानोपमानशाब्दभेदाच्चतुर्द्धा, तत्रेन्द्रियार्थसंनिकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम्, तदत्रेन्द्रियार्थयोर्यः सम्बन्धस्तस्माद्यदुत्पन्नम्, नाभिव्यक्तम्, ज्ञानम्, न सुखादिकम् , अव्यपदेश्यमिति व्यपदेश्यत्वेशाब्दप्राप्तेः, अव्यभिचारि, न द्विचन्द्रज्ञानवद्व्यभिचरतीति, व्यवसायात्मकमिति निश्चयात्मकं प्रत्यक्षम्, तत्रास्य प्रत्यक्षता न बुध्य(युज्य)ते, तथाहि- यत्रात्माऽर्थग्रहणं प्रति साक्षाव्याप्रियते तदेव प्रत्यक्षम्, तच्चावधिमनःपर्यायकेवलात्मकम्, एतच्चापरोपाधिद्वारेण प्रवृत्तेरनुमानवत्परोक्षमिति, उपचारप्रत्यक्षं तु स्यात्, न चोपचारस्तत्त्वचिन्तायां व्याप्रियत इति / अनुमानमपि पूर्ववच्छेषवत्सामान्यतो दृष्टमिति त्रिधा, तत्र कारणात्कार्यानुमानं पूर्ववत् कार्यात्कारणानुमानं शेषवत् सामान्यतो दृष्टं तु चूतमेकं विकसितं दृष्ट्वा पुष्पिताश्चुता जगतीति यदिवा देवदत्तादौ गतिपूर्विकांस्थानात् स्थानान्तरावाप्तिं दृष्ट्राऽऽदित्येऽपि गत्यनुमानमिति, तत्राप्यन्यथानुपपत्तिरेव गमिका, न कारणादिकम्, तया विना कारणस्य कार्य प्रति व्यभिचारात्, यत्र तु सा विद्यते ®ज्ञानाच्छ्रद्धा ततः प्ररूपणेति सम्यग्वादित्वशङ्का / 0 जैनानां ह्यात्मा ज्ञानस्वरूप इतीन्द्रियादिनाऽभिव्यज्यते ज्ञानं तेषां तूत्पद्यते / 0 सुखस्यापीन्द्रियार्थोत्पन्नत्वात्। तद्धि (मु०)। 7 इन्द्रियार्थोत्थम् / // 407 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy