________________ द्वादशमध्ययन श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 406 // सूत्रम् 21 // ( // 555 // ) श्रुतस्कन्धः१ सद्देसुरूवेसु असज्जमाणो, गंधेसु रसेसु अदुस्समाणे / णो जीवितं णो मरणाहिकंखी, आयाणगुत्ते वलया विमुक्के॥सूत्रम् 22 // समवसरणम्, (॥५५६॥)॥त्तिबेमि / इति श्रीसमवसरणाध्ययनं द्वादशमं समत्तं // (गाथाग्र०५६८) सूत्रम् 21-22 सत्त्वानां स्वकृतकर्मफलभुजामधस्तान्नारकादौ दुष्कृतकर्मकारिणां विविधां विरूपांवा कुट्टना- जातिजरामरणरोगशोककृतां (555-556) नैयायिक शरीरपीडाम्, चशब्दात्तदभावोपायं यो जानाति, इदमुक्तं भवति- सर्वार्थसिद्धादारतोऽधःसप्तमी नरकभुवं यावदसुमन्तःतत्वनिरास: सकर्माणो विवर्तन्ते, तत्रापि ये गुरुतरकर्माणस्तेऽप्रतिष्ठाननरकयायिनो भवन्तीत्येवं यो जानीते / तथा आश्रवत्यष्टप्रकार कर्म येन स आश्रवः, स च प्राणातिपातरूपो रागद्वेषरूपो वा मिथ्यादर्शनादिको वेति तं तथा संवरं आश्रवनिरोधरूपं यावदशेषयोगनिरोधस्वभावम्, चकारात्पुण्यपापे च यो जानीते तथा दुःखं असातोदयरूपं तत्कारणं च यो जानाति सुखं चल तद्विपर्ययभूतं यो जानाति, तपसा यो निर्जरां च, इदमुक्तं भवति- यः कर्मबन्धहेतून् तद्विपर्यासहेतूंश्च तुल्यतया जानाति, तथाहि- यथाप्रकारा यावन्तः, संसारावेशहेतवः / तावन्तस्तद्विपर्यासा, निर्वाणावेशहेतवः॥१॥स एव परमार्थतो भाषितुं वक्तुमर्हति, किं तद्? इत्याह- क्रियावादम्, अस्ति जीवोऽस्ति पुण्यमस्ति पापमस्ति च पूर्वाचरितस्य कर्मणः फलमित्येवंरूपं वादमिति / तथाहि-जीवाजीवाश्रवसंवरबन्धपुण्यपापनिर्जरामोक्षरूपानवापि पदार्थाः श्लोकद्वयेनोपात्ताः, तत्र य आत्मानं जानातीत्यनेन / जीवपदार्थः, लोकमित्यनेनाजीवपदार्थः, तथा गत्यनागतिः शाश्वतेत्यादिनाऽनयोरेव स्वभावोपदर्शनं कृतम्, तथाऽऽश्रवसंवरौ स्वरूपेणैवोपात्तौ, दुःखमित्यनेन तु बन्धपुण्यपापानि गृहीतानि, तदविनाभावित्वाद्दुःखस्य, निर्जरायास्तु स्वाभिधानेनैवो ®आदिनाऽशाश्वतं / ॐ अजीवपक्षेऽनागतिः स्थितिः यद्वा जीवानां ते अजीवकृते इति। ॐवैषयिकसुखस्य दुःखरूपत्वान्न दुःखस्य पुण्याविनाभावत्वानुपपत्तिः।