SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 405 // येन चात्मा यथावस्थितस्वरूपोऽहंप्रत्ययग्राह्यो निख़तों भवति तेनैवायं सर्वोऽपिलोकः प्रवृत्तिनिवृत्तिरूपो विदितो भवति, स एव चात्मज्ञोऽस्तीत्यादिक्रियावादं भाषितुमर्हतीति द्वितीयवृत्तस्यान्ते क्रिया। यश्च लोकंचराचरं वैशाखस्थानस्थकटिस्थकरयुग्मपुरुषाकारंचशब्दादलोकं चानन्ताकाशास्तिकायमात्रंजानाति, यश्च जीवानां आगतिं आगमनं कुतः समागता नारकास्तिर्यचो मनुष्या देवावा? कर्मभिर्नारकादित्वेनोत्पद्यन्ते? एवं यो जानाति, तथा अनागतिं च अनागमनं च, कुत्र गतानां नागमनं भवति? चकारात्तद्गमनोपायं च सम्यग्दर्शनज्ञानचारित्रात्मकं यो जानाति, तत्रानागति:- सिद्धिरशेषकर्मच्युतिरूपा लोकाग्राकाशदेशस्थानरूपा वा ग्राह्या, सा च सादिरपर्यवसाना / यश्च शाश्वतं नित्यं सर्ववस्तुजातं द्रव्यास्तिकनयाश्रयणाद् अशाश्वतं वाऽनित्यं प्रतिक्षणविनाशरूपं पर्यायनयाश्रयणात्, चकारान्नित्यानित्यं चोभयाकारं सर्वमपि वस्तुजातं यो जानाति, तथा ह्यागमः- णेरइया दव्वट्ठयाए सासया भावट्ठयाए असासयाएवमन्येऽपि तिर्यगादयो द्रष्टव्याः। अथवा निर्वाणं-शाश्वतं संसार:- अशाश्वतस्तद्गतानां संसारिणांस्वकृतकर्मवशगानामितश्चेतश्चगमनादिति / तथा जातिं उत्पत्तिं नारकतिर्यमनुष्यामरजन्मलक्षणां मरणं च आयुष्कक्षयलक्षणम्, तथा जायन्त इति जनाः- सत्त्वास्तेषामुपपातं यो जानाति, सच नारकदेवयोर्भवतीति, अत्र च जन्मचिन्तायामसुमतामुत्पत्तिस्थानं योनिर्भणनीया, सा च सचित्ताऽचित्ता मिश्रा च तथा शीता उष्णा मिश्रा च तथा संवृता विवृता मिश्राचेत्येवंसप्तविंशतिविधेति ।मरणं-पुनस्तिर्यजनुष्ययोः, च्यवनं-ज्योतिष्कवैमानिकानांउद्वर्तना-2 भवनपतिव्यन्तरनारकाणामिति // 20 // 554 // किञ्च अहोऽवि सत्ताण विउट्टणं च, जो आसवं जाणति संवरं च / दुक्खं च जो जाणति निजरंच, सो भासिउमरिहइ किरियवादं॥ 00 भिज्ञातो प्र० 0 मनुष्या देवाः ? 0 श्रयाद् (मु०)। 0 नैरयिका द्रव्यार्थतया शाश्वता भावार्थतया अशाश्वताः। श्रुतस्कन्ध:१ द्वादशमध्ययन समवसरणम्, सूत्रम् 17-20 (551-554) प्रवादचतुष्कं परतीर्थिक परिहारंच सूत्रम् 21-22 (555-556) नैयायिक तत्वनिरास: // 405 //
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy