SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ द्वादश मध्ययन श्रीसूत्रकृताङ्ग षड्द्रव्यात्मकत्वात् क्षेत्रतश्चतुर्दशरज्जुप्रमाणतया सावधिको लोकस्तथापि कालतो भावतश्चानाद्यनिधनत्वात्पर्यायाणां श्रुतस्कन्धः 1 नियुक्तिश्रीशीला० चानन्तत्वान्महान् लोकस्तमुत्प्रेक्षत इति / एवं च लोकमुत्प्रेक्षमाणो बुद्धः- अवगततत्त्वः सर्वाणि प्राणिस्थानान्यशाश्वतानि, वृत्तियुतम् तथा नात्रापसदे संसारे सुखलेशोऽप्यस्तीत्येवं मन्यमानः अप्रमत्तेषु संयमानुष्ठायिषु यतिषु मध्ये तथाभूत एव परिः- समन्ताद्ब्रजेत् / समवसरणम्, श्रुतस्कन्धः१ परिव्रजेत्, यदिवा बुद्धः सन् प्रमत्तेषु गृहस्थेषु अप्रमत्तः सन् संयमानुष्ठाने परिव्रजेदिति // 18 // 552 // किञ्च- यः स्वयं सर्वज्ञ // 404 // (551-554) आत्मनस्त्रैलोक्योदरविवरवर्तिपदार्थदर्शी यथाऽवस्थितं लोकं ज्ञात्वा तथा यश्च गणधरादिकः परतः तीर्थकरादेर्जीवादीन् / प्रवादचतुष्कं पदार्थान् विदित्वा परेभ्य उपदिशति स एवंभूतो हेयोपादेयवेदी आत्मनस्त्रातुमलं आत्मानं संसारावटात्पालयितुं समर्थो भवति, परतीर्थिक परिहारंच तथा परेषां च सदुपदेशदानतस्त्राता जायते, तं सर्वज्ञं स्वत एव सर्ववेदिनं तीर्थकरादिकं परतोवेदिनंच गणधरादिकं ज्योतिर्भूतं पदार्थप्रकाशकतया चन्द्रादित्यप्रदीपकल्पमात्महितमिच्छन् संसारदुःखोद्विग्नः कृतार्थमात्मानं भावयन्सततं अनवरतं आवसेत् / सेवेत, गुर्वन्तिक एव यावज्जीवं वसेत्, तथा चोक्तं-नाणस्स होइ भागी थिरयरओ दंसणे चरित्ते य। धन्ना आवकहाए गुरुकुलवासं कण मुंचंति॥१॥क एवं कुर्युः? इति दर्शयति-ये कर्मपरिणतिमनुविचिन्त्य माणुस्सखेत्तजाइइत्यादिना दुर्लभांच सद्धर्मावाप्ति सद्धर्म वा श्रुतचारित्राख्यं क्षान्त्यादिदशविधसाधुधर्मं श्रावकधर्म वा अनुविचिन्त्य पर्यालोच्य ज्ञात्वा वा तमेव धर्म यथोक्तानुष्ठानतः प्रादुष्कुर्युः प्रकटयेयुः ते गुरुकुलवासं यावज्जीवमासेवन्त इति, यदिवा ये ज्योतिर्भूतमाचार्य सततमासेवन्ति त एवागमज्ञा धर्ममनुविचिन्त्य 'लोकं' पञ्चास्तिकायात्मकं चतुर्दशरज्ज्वात्मकं वा प्रादुष्कुर्युरिति क्रिया॥ 19 // 553 // // 404 // किंचान्यत्- यो ह्यात्मानं परलोकयायिनं शरीराव्यतिरिक्तं सुखदुःखाधारं जानाति यश्चात्महितेषु प्रवर्तते स आत्मज्ञो भवति / ®र्वाणि स्थाना० प्र० / ॐ ज्ञानस्य भवति भागी स्थिरतरो दर्शने चारित्रे च। धन्या यावत्कथं गुरुकुलवासं न मुञ्चन्ति॥१॥
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy