________________ 18888888888888888 द्वादश श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः 1 / / 398 // मध्ययन समवसरणम्, प्रक्रियया सम्यगाख्यान्ति-प्रतिपादयन्ति लोकं चतुर्दशरज्ज्वात्मकं स्थावरजङ्गमाख्यं वा समेत्य केवलज्ञानेन करतलामल- श्रुतस्कन्धः 1 कन्यायेन ज्ञात्वा तथागता:- तीर्थकरत्वं केवलज्ञानं च गताः, श्रमणाः साधवो ब्राह्मणाः संयतासंयताः, लौकिकी वाचोयुक्तिः, किम्भूतास्त एवमाख्यान्तीति सम्बन्धः, तथा तथेति वा क्वचित्पाठा, यथा यथा समाधिमार्गो व्यवस्थितस्तथा / तथा कथयन्ति , एतच्च कथयन्ति- यथा यत्किञ्चित्संसारान्तर्गतानामसुमतांदुःखं- असातोदयस्वभावम्, तत्प्रतिपक्षभूतं च / सूत्रम् 9-12 (543-546) सातोदयापादितं सुखम्, तत्स्वयं- आत्मना कृतम्, नान्येन कालेश्वरादिना कृतमिति, तथा चोक्तं- सव्वो पुवकयाणं कम्माणं प्रवादचतुष्कं पावए फलविवागं / अवराहेसु गुणेसु य णिमित्तमित्तं परो होइ॥१॥ एतच्चाहुस्तीर्थकरगणधरादयः, तद्यथा-विद्या- ज्ञानं चरणं-8 परतीर्थिक परिहारंच चारित्रं क्रिया तत्प्रधानो मोक्षस्तमुक्तवन्तो, न ज्ञानक्रियाभ्यां परस्परनिरपेक्षाभ्यामिति, तथा चोक्तं-क्रियां च सज्ज्ञानवियोगनिष्फलां, क्रियाविहीनां च विबोधसम्पदम् / निरस्यता क्लेशसमूहशान्तये, त्वया शिवायालिखितेव पद्धतिः॥१॥॥११॥ 545 // किञ्च- ते तीर्थकरगणधरादयोऽतिशयज्ञानिनोऽस्मिन् लोके चक्षुरिव चक्षुर्वर्तन्ते, यथा हि चक्षुर्योग्यदेशावस्थितान् / पदार्थान् परिच्छिनत्ति एवं तेऽपि लोकस्य यथावस्थितपदार्थाविष्करणं कारयन्ति, तथाऽस्मिन् लोके ते नायकाः-प्रधानाः, तुशब्दो विशेषणे, सदुपदेशदानतो नायका इति, एतदेवाह- मार्ग ज्ञानादिकं मोक्षमार्ग अनुशासति कथयन्ति प्रजना-प्रजायन्त इति प्रजाः- प्राणिनस्तेषाम्, किम्भूतं?, हितम्, सद्गतिप्रापकमनर्थनिवारकं च, किञ्च- चतुर्दशरज्वात्मके लोके पञ्चास्तिकायात्मके वा येन येन प्रकारेण द्रव्यास्तिकनयाभिप्रायेण यद्वस्तुशाश्वतं तत्तथा आहुः उक्तवन्तः, यदिवालोकोऽयं प्राणिगणः संसारान्तर्वर्ती यथा यथा शाश्वतो भवति तथा तथैवाहुः, तद्यथा- यथा यथा मिथ्यादर्शनाभिवृद्धिस्तथा तथा शाश्वतो लोकः, (r) नेदं प्रत्यन्तरे। ॐ सर्वः पूर्वकृतानां कर्मणां प्राप्नोति फलविपाकम्। अपराधेषु गुणेषु च निमित्तमात्रं परो भवति // 1 // ॐ तत्तथा ‘त आहुः' (मु०)। // 398 //