________________ श्रुतस्कन्धः१ द्वादशमध्ययन समवसरणम्, सूत्रम् 9-12 (543-546) प्रवादचतुष्कं परतीर्थिक परिहारंच श्रीसूत्रकृताङ्गं यथा यथा क्रिया तथा तथा स्वर्गनरकादिकं फलमिति, ते च श्रमणास्तीर्थिका ब्राह्मणा वा क्रियात एव सिद्धिमिच्छन्ति, नियुक्तिश्रीशीला० किञ्च- यत् किमपि संसारे दुःखं तथा सुखं च तत्सर्वं स्वयमेवात्मना कृतम्, नान्येन कालेश्वरादिना, न चैतदक्रियावादे घटते, वृत्तियुतम् तत्र ह्यक्रियत्वादात्मनोऽकृतयोरेव सुखदुःखयोः संभवः स्यात्, एवं च कृतनाशाकृताभ्यागमौ स्याताम्, अत्रोच्यते, श्रुतस्कन्धः१ सत्यमस्त्यात्मसुखदुःखादिकम्, न त्वस्त्येव, तथाहि- यद्यस्त्येव इत्येवं सावधारणमुच्यते ततश्चन कथश्चिन्नास्तीत्यापन्नम्। // 397 // एवं च सति सर्वं सर्वात्मकमापद्येत, तथा च सर्वलोकस्य व्यवहारोच्छेदः स्यात्, न च ज्ञानरहितायाः क्रियायाः सिद्धिः, तदुपायपरिज्ञानाभावात्, न चोपायमन्तरेणोपेयमवाप्यत इति प्रतीतम्, सर्वा हि क्रिया ज्ञानवत्येव फलवत्युपलक्ष्यते, उक्तञ्चपढमं नाणं तओ दया, एवं चिट्ठति सव्वसंजए। अन्नाणी किं काही, किंवा नाही छेयपावयं // 1 // इत्यतो ज्ञानस्यापि प्राधान्यम्, नापि ज्ञानादेव सिद्धिः, क्रियारहितस्य ज्ञानस्य पङ्गोरिव कार्यसिद्धरनुपपत्तेरित्यालोच्याह-आहंसु विजाचरणं पमोक्खं ति, न ज्ञाननिरपेक्षायाः क्रियायाः सिद्धिः, अन्धस्येव, नापि क्रियाविकलस्य ज्ञानस्य पङ्गोरिव, इत्येवमवगम्य 'आहुः' उक्तवन्तः, तीर्थकरगणधरादयः, कमाहुः?, मोक्षम्, कथं?, विद्या च- ज्ञानं चरणं च-क्रिया ते द्वे अपि विद्येते कारणत्वेन यस्येति विगृह्यार्शआदित्वान्मत्वर्थीयोऽच्, असौ विद्याचरणो मोक्षः- ज्ञानक्रियासाध्य इत्यर्थः, तमेवंसाध्यं-मोक्षं प्रतिपादयन्ति। यदिवाऽन्यथा पातनिका, केनैतानि समवसरणानि प्रतिपादितानि? यच्चोक्तं यच्च वक्ष्यते इत्येतदाशङ्कयाह- ते एवमक्खंती | त्यादि, अनिरुद्धा- क्वचिदप्यस्खलिता प्रज्ञायतेऽनयेति प्रज्ञा- ज्ञानं येषां तीर्थकृतां तेऽनिरुद्धप्रज्ञाः, त एवं अनन्तरोक्तया / 0प्रथमं ज्ञानं ततो दया एवं तिष्ठति सर्वसंयतः। अज्ञानी किं करिष्यति किंवा ज्ञास्यति छेकपापकं॥१॥ ज्ञानस्य ज्ञानिनां चैव, निन्दाप्रद्वेषमत्सरैः। उपघातैश्च विघ्नैश्च, ज्ञानघ्नं कर्म बध्यते // 2 // केषुचिदादर्शेषु दृश्यते श्लोकोऽयमशुभक्रियाया ज्ञानपूर्विकायाः फलवत्ताज्ञापनाय न तदा विरोधः 0 प्रणीतानि' इत्यपि /