SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 396 // सद्भावेऽपि कार्यविघातदर्शनाद्, अतो निमित्तबलेनादेशविधायिनां मृषावाद एव केवलमिति, नैतदस्ति, न हि सम्यगधीतस्य श्रुतस्कन्धः१ श्रुतस्यार्थे विसंवादोऽस्ति, यदपि षट्स्थानपतितत्वमुद्धोष्यते तदपि पुरुषाश्रितक्षयोपशमवशेन, न च प्रमाणाभासव्यभिचारे द्वादश मध्ययन सम्यक्प्रमाणव्यभिचाराशङ्का कर्तुं युज्यते, तथाहि-मरुमरीचिकानिचये जलग्राहि प्रत्यक्षंव्यभिचरतीतिकृत्वा किं सत्यजल समवसरणम्, ग्राहिणोऽपि प्रत्यक्षस्य व्यभिचारो युक्तिसंगतो भवति?, न हि मशकवर्तिरग्निसिद्धावुपदिश्यमाना व्यभिचारिणीति सूत्रम् 9-12 (543-546) सत्यधूमस्यापि व्यभिचारो, न हि सुविवेचितं कार्य कारणं व्यभिचरतीति, ततश्च प्रमातुरयमपराधोन प्रमाणस्य, एवं सुविवेचितं प्रवादचतुष्कं निमित्तश्रुतमपि न व्यभिचरतीति, यश्च क्षुतेऽपि कार्यसिद्धिदर्शनेन व्यभिचारः शङ्कयते सोऽनुपपन्नः, तथाहि- कार्याकूतात् / परतीर्थिक परिहार क्षुतेऽपि गच्छतो या कार्यसिद्धिः साऽपान्तराले इतरशोभननिमित्तबलात्संजातेत्येवमवगन्तव्यम्, शोभननिमित्तप्रस्थितस्यापीतरनिमित्तबलात्कार्यव्याघात इति, तथा च श्रुति-किल बुद्धः स्वशिष्यानाहूयोक्तवान्, यथा 'द्वादशवार्षिकमत्र दुर्भिक्षं भविष्यतीत्यतो देशान्तराणि गच्छत यूयं ते तद्वचनाद्गच्छन्तस्तेनैव प्रतिषिद्धाः यथा ‘मा गच्छत यूयम्, इहाद्यैव पुण्यवान् महासत्त्वः संजातस्तत्प्रभावात्सुभिक्षं भविष्यति' तदेवमन्तराऽपरनिमित्तसद्भावान्न तव्यभिचारशङ्केति स्थितम्॥१०॥५४४॥ साम्प्रतं क्रियावादिमतं दुदूषयिषुस्तन्मतमाविष्कुर्वन्नाह- ये क्रियात एव ज्ञाननिरपेक्षायाः दीक्षादिलक्षणाया मोक्षमिच्छन्ति ते एवमाख्यान्ति, तद्यथा-'अस्ति माता पिता अस्ति सुचीर्णस्य कर्मणः फल'मिति, किं कृत्वा त एवं कथयन्ति?- क्रियात एव सर्वं सिध्यतीति स्वाभिप्रायेण लोकं स्थावरजङ्गमात्मकं समेत्य ज्ञात्वा, किल वयं यथावस्थितवस्तुनो ज्ञातार इत्येव // 396 // मभ्युपगम्य सर्वमस्त्येवेत्येवं सावधारणं प्रतिपादयन्ति, न कथञ्चिन्नास्तीति, कथमाख्यान्ति?- तथा तथा तेन (तेन) प्रकारेण, Oमद्धष्यते (प्र०)। (c) वात्तद्व्यभि (मु०)। 0 तथा तेन प्रकारेण (प्र०)।
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy