________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 395 // दिकम्, तथा अष्टाङ्गं च निमित्तमधीत्य, तद्यथा- भौममुत्पातं स्वप्नमान्तरिक्षमाङ्गं स्वरं लक्षणं व्यञ्जनमित्येवंरूपं श्रुतस्कन्धः१ नवमपूर्वतृतीयाचारवस्तुविनिर्गतं सुखदुःखजीवितमरणलाभालाभादिसंसूचकं निमित्तमधीत्य लोकेऽस्मिन्नतीतानि वस्तूनि द्वादश मध्ययनं अनागतानि च जानन्ति परिच्छिन्दन्ति, न च शून्यादिवादेष्वेतद् घटते, तस्मादप्रमाणकमेव तैरभिधीयत इति // 9 // 543 // समवसरणम्, एवं व्याख्याते सति आह परः-ननु व्यभिचार्यपि श्रुतमुपलभ्यते, तथाहि-चतुर्दशपूर्वविदामपि षट्स्थानपतित्वमागम उद्घष्यते / सूत्रम् 9-12 किं पुनरष्टाङ्गनिमित्तशास्त्रविदां?, अत्रचाङ्गवर्जितानां निमित्तशास्त्राणामानुष्टुभेन छन्दसाऽर्धत्रयोदशशतानि सूत्रं तावन्त्येव (543-546) पचव प्रवादचतुष्कं सहस्राणि वृत्तिस्तावत्प्रमाणलक्षा परिभाषेति, अङ्गस्य त्वर्धत्रयोदशसहस्राणि सूत्रम्, तत्परिमाणलक्षा वृत्तिरपरिमितं वार्तिकमिति, तदेवमष्टाङ्गनिमित्तवेदिनामपि परस्परतः षट्स्थानपतितत्वेन व्यभिचारित्वमत इदमाह- केई निमित्ता त्यादि, परिहारंच छान्दसत्वात्प्राकृतशैल्या वा लिङ्गव्यत्ययः, कानिचिन्निमित्तानि तथ्यानि सत्यानि भवन्ति, केषाश्चित्तु निमित्तानां निमित्तवेदिनां वा बुद्धिवैकल्यात्तथाविधक्षयोपशमाभावेन तत् निमित्तज्ञानं विपर्यास व्यत्ययमेति, आर्हतानामपि निमित्तव्यभिचारः समुपलभ्यते, किंपुनस्तीथिकानां?, तदेवं निमित्तशास्त्रस्य व्यभिचारमुपलभ्य ते अक्रियावादिनो विद्यासद्भावविद्यामनधीयानाः सन्तो निमित्तं तथा चान्यथा च भवतीति मत्वा ते आहंसु विजापलिमोक्खमेव विद्याया:-श्रुतस्य व्यभिचारेण तस्य परिमोक्षंपरित्यागमाहुः- उक्तवन्तः, यदिवा-क्रियाया अभावाद्विद्यया ज्ञानेनैव मोक्षं-सर्वकर्मच्युतिलक्षणमाहुरिति / क्वचिच्चरमपाद-3 स्यैवं पाठः, 'जाणामु लोगंसि वयंति मंद' त्ति, विद्यामनधीत्यैव स्वयमेव लोकमस्मिन् वा लोके भावान् वयं जानीमः, एवं 8 // 395 // 'मन्दाः' जडा वदन्ति, न च निमित्तस्य तथ्यता, तथाहि- कस्यचित्क्वचित्क्षुतेऽपि गच्छतः कार्यसिद्धिदर्शनात्, सच्छकुन 0 केईत्यादि (मु०)। 0 बोधवैकल्यात् यद्वा निमित्तशब्देन निमित्तशास्त्राणि तेन तद्विषयकबुद्धिवैकल्यात्। 0 स्वयं।