________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१| श्रुतस्कन्धः१ द्वादशमध्ययनं समवसरणम्, सूत्रम् 5-8 (539-542) प्रवादचतुष्कं परतीर्थिक परिहारंच // 393 // रूपाणि घटपटादीनि ज्योतिषापि प्रदीपादिनापि सह वर्तमानो न पश्यति नोपलभते, एवं तेऽप्यक्रियावादिनः सदपिघटपटादिकं वस्तु तत्क्रियां चास्तित्वादिकां परिस्पन्दादिकां वा क्रियां न पश्यन्ति। किमिति ?, यतो निरुद्धा- आच्छादिता ज्ञानावरणादिना कर्मणा प्रज्ञा- ज्ञानं येषां ते तथा, तथाहि- आगोपालाङ्गनादिप्रतीतः समस्तान्धकारक्षयकारी कमलाकरोद्घाटनपटीयानादित्योद्मः प्रत्यहं भवन्नुपलक्ष्यते, तक्रिया च देशाद्देशान्तरावाप्त्याऽन्यत्र देवदत्तादौ प्रतीताऽनुमीयते / चन्द्रमाश्च प्रत्यहं क्षीयमाणः समस्तक्षयं यावत्पुनः कलाभिवृद्ध्या प्रवर्धमानः संपूर्णावस्थां यावदध्यक्षेणैवोपलभ्यते / तथा सरितश्च प्रावृषि जलकल्लोलाविलाः स्यन्दमाना दृश्यन्ते। वायवश्च वान्तो वृक्षभङ्गकम्पादिभिरनुमीयन्ते। यच्चोक्तं भवता-सर्वमिदं मायास्वप्नेन्द्रजालकल्पमिति, तदसत्, यतः सर्वाभावे कस्यचिदमायारूपस्य सत्यस्याभावान्मायाया एवाभावः स्यात्, यश्च मायां प्रतिपादयेत् यस्य च प्रतिपाद्यते सर्वशून्यत्वे तयोरेवाभावात्कुतस्तव्यवस्थितिरिति?, तथा स्वप्नोऽपि जाग्रदवस्थायां सत्यां व्यवस्थाप्यते तस्या अभावे तस्याप्यभावः स्यात्ततःस्वप्नमभ्युपगच्छता भवता तन्नान्तरीयकतया जाग्रदवस्थाऽवश्यमभ्युपगता भवति, तदभ्युपगमेच सर्वशून्यत्वहानिः, न च स्वप्नोऽप्यभावरूप एव, स्वप्नेऽप्यनुभूतादेः सद्भावात्, तथा चोक्तंअणुहूयदिट्ठचिंतिय सुयपयइवियारदेवयाऽणूया / सुमिणस्स निमित्ताई पुण्णं पावं च णाभावो॥१॥इन्द्रजालव्यवस्थाऽप्यपरसत्यत्वे सति भवति, तदभावे तु केन कस्य चेन्द्रजालं व्यवस्थाप्येत?, द्विचन्द्रप्रतिभासोऽपिरात्रौसत्यामेकस्मिंश्च चन्द्रमस्युपलम्भकसद्भावे च घटते न सर्वशून्यत्वे, न चाभावः कस्यचिदप्यत्यन्ततुच्छरूपोऽस्ति, शशविषाणकूर्मरोमगगनारविन्दादीनामत्यन्ताभावप्रसिद्धानां समासप्रतिपाद्यस्यैवार्थस्याभावो न प्रत्येकपदवाच्यार्थस्येति, तथाहि-शशोऽप्यस्ति विषाणमप्यस्ति किं 0 लक्ष्यते (मु०)। ॐ अनुभूतदृष्टचिन्तितश्रुतप्रकृतिविकारदेवतानूपाः। स्वप्नस्य निमित्तानि पुण्यं पापं च नाभावः॥ 1 // 0 वेन्द्रजालं (प्र०)। // 393 //