SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ | नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 392 // व्युगाहयन्त्यक्रियात्मानोऽक्रियावादिन इति। ते च परमार्थमबुध्यमाना यदर्शनं आदाय गृहीत्वा बहवो मनुष्याः संसारं अनवदग्रं श्रुतस्कन्ध:१ अपर्यवसानमरहट्टघटीन्यायेन भ्रमन्ति पर्यटन्ति, तथाहि-लोकायतिकानांसर्वशून्यत्वे प्रतिपाद्ये न प्रमाणमस्ति, तथा चोक्तं द्वादश मध्ययनं तत्त्वान्युपप्लुतानीति, युक्त्यभावे न सिध्यति / साऽस्ति चेत्सैव नस्तत्त्वं, तत्सिद्धौ सर्वमस्तु सत्॥१॥ न च प्रत्यक्षमेवैकं प्रमाणम्, समवसरणम्, अतीतानागतभावतया पितृनिबन्धनस्यापि व्यवहारस्यासिद्धेः, ततः सर्वसंव्यवहारोच्छेदः स्यादिति / बौद्धानामप्यत्यन्त- सूत्रम् 5-8 (539-542) क्षणिकत्वेन वस्तुत्वाभाव: प्रसजति, तथाहि-यदेवार्थक्रियाकारितदेव परमार्थतः सत्, न च क्षणः क्रमेणार्थक्रियां करोति, प्रवादचतुष्कं क्षणिकत्वहानेः, नापि यौगपद्येन तत्कार्याणां एकस्मिन्नेव क्षणे सर्वकार्यापत्तेः, न चैतदृष्टमिष्टं वा, न च ज्ञानाधारमात्मानं परतीर्थिक परिहारंच गुणिनमन्तरेण गुणभूतस्य संकलनाप्रत्ययस्य सद्भाव इत्येतच्च प्रागुक्तप्रायम्, यच्चोक्तं-दानेन महाभोगा इत्यादि तदार्हतैरपि कथञ्चिदिष्यत एवेति, न चाभ्युपगमा एव बाधायै प्रकल्प्यन्त इति // 6 // 540 / / पुनरपि शून्यमताविर्भावनायाहसर्वशून्यवादिनो ह्यक्रियावादिनः सर्वाध्यक्षामादित्योद्गमनादिकामेव क्रियां तावन्निरुन्धन्तीति दर्शयति- आदित्यो हि सर्वजनप्रतीतो जगत्प्रदीपकल्पो दिवसादिकालविभागकारी स एव तावन्न विद्यते, कुतस्तस्योद्गमनमस्तमयनं वा?, यच्च जाज्वल्यमानं तेजोमण्डलं दृश्यते तद्भ्रान्तमतीनां द्विचन्द्रादिप्रतिभासमृगतृष्णिकाकल्पं वर्तते। तथा न चन्द्रमावर्धते शुक्लपक्षे, नाप्यपरपक्षे प्रतिदिनमपहीयते, तथा न सलिलानि उदकानि स्यन्दन्ते पर्वतनिझरेभ्यो न स्रवन्ति / तथा वाताः सततगतयो न वान्ति। किं बहुनोक्तेन?, कृत्स्नोऽप्ययं लोको वन्ध्यः अर्थशून्यो नियतो निश्चित: अभावरूप इतियावत्, सर्वमिदं यदुपलभ्यते। तन्मायास्वप्नेन्द्रजालकल्पमिति // 7 // 541 // एतत्परिहतुकाम आह- यथा ह्यन्धो- जात्यन्धः पश्चाद्वा हीननेत्रः अपगतचक्षुः 0 नास्ति (प्र०)। (c) क्षणिकत्वे वस्तु (प्र०)।
SR No.600434
Book TitleSutrkritang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages520
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size36 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy